This page has been fully proofread once and needs a second look.

विष्णुपादादि-
प्यशक्यत्वात् । नित्यं सुखयति दुःखोदर्कसुखव्यतिरेकेण एका-

न्ततोऽत्यन्तं च सुखयति तदात्वे निर्वृतिजनकत्वात् उपरि

विदेहकैवल्यानन्दहेतुत्वाच्च सदा सुखितान् करोतीत्यर्थः ।

तन्महः 'ज्योतिषां ज्योतिः' 'आत्मनैवायं ज्योतिषास्ते' इत्या-

दिश्रुतेः । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्च-

न्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्यादिस्मृतेश्च ।

अव्यात् स्वानुभूत्या संसारदु: खेभ्यो रक्षतु इति । अत्र सूक्ष्मा-

तिशयोक्तिरर्थापत्तिश्चालंकार: ॥ ५० ॥
 
१३४
 

 
एवं सकलनिष्कलाभ्यां परमेश्वरमुपास्य इदानीमित्थंभा-

वेनोपासमानमपि यो भजते तस्यापि कृतार्थता भवति, किं

पुन: स्वयमुपासमानस्येति वा, सकलोपासकस्यायं प्रभावः

किं पुनर्निष्कलोपासकस्येति वा व्यञ्जयितुमुपास्यमहात्मानमु
-
पास्ते । 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः

सर्वमिति स महात्मा सुदुर्लभ: । क्लेशोऽधिकतरस्तेषामव्य-

क्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते'

इति भगवतैव तस्य स्तुतत्वात् । 'मद्भक्तजनवात्सल्यं पूजायां

चानुमोदनम्' इत्यादीनां भक्तिलक्षणत्वेन प्रकाशितत्वात् ।

त्वद्भक्तभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर

लोकनाथ ' इति परमभागवतश्रीकुलशेखरमहाराजवचनाच्च ।