This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
;
 
बाह्य बाह्यमिवेति तद्विवेकः' इत्याचार्योक्तेः । निरवधि
अवधि: परिच्छेदः देशकालवस्तुभिः परिच्छेद रूपादवधेर्य-
न्निष्क्रान्तमित्यर्थः । 'निरादयः कान्ताद्यर्थे पञ्चम्या इति
समास: । अनेन अनन्तमित्युक्तम् । 'सत्यं ज्ञानमनन्तं ब्रह्म ',
' विज्ञानमानन्दं ब्रह्म ' इति श्रुतिगतानां सत्यज्ञानानन्तानन्द-
पदानामनृतजडपरिच्छिन्नदुः खव्यावृत्तिमुखेन ब्रह्मणि प्रवृत्तिः
न स्वरूप भेदेनेत्यखण्डार्थता प्रकाशितेति ग्राह्यम् । तदेव जगद-
नुग्रहाय दिव्यां मूर्तिमवलम्ब्य भक्तान् प्रमोदयतीत्याह–वि.
मलस्वान्तसंक्रान्तबिम्चच्छायापत्त्या, मैत्र्यादिभावनावशात् भ
क्तिविद्याभ्यां च क्षालितरागद्वेषादिकलङ्के स्वान्ते मनसि दर्प-
णस्थानीये संक्रान्तस्य प्रविष्टस्य बिम्बस्य धारणायान्तः स्थिरीकृ-
तस्य विष्णुविग्रहस्येत्यर्थात् छाया शोभा, अथवा बिम्बस्य प्र
तिबिम्बस्य प्रकृतिभूतस्य छाया प्रतिबिम्बः 'बिम्बोऽस्त्री मण्डल-
समप्रतिमासु च लक्ष्मसु । प्रतिबिम्बे तत्प्रकृतौ ' इति; 'छाया-
त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः' इति वैजयन्ती । तस्या
आपच्या स्वस्य तद्भावप्राप्त्या, अथवा तदनुभूत्या, अमृतरसतृ-
षितस्येव मोदकात् एतत्स्वरूपभूतानन्दकन्दलितस्य विग्रह-
स्य स्वाद्यमानस्य यदा अयं प्रभावः, तदा किं ब्रूमो वयमम्-
तस्यैव साक्षादनुभूयमानस्य इत्यपिना द्योत्यते । यमिनः
परमयोगिनः सनकादीन् । योगाभ्यासमन्तरेण तदनुभवस्या-