This page has not been fully proofread.

विष्णुपादादि-
अतीतः पन्थानं तव च महिमा
 
सा
 
-
 
वाङ्मनसयोरतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इति
भट्टाचार्यैरप्ययमर्थः प्रतिपादित: । वाङ्मनसागोचरत्वं
धितं चेत्, तर्हि प्रमाणशून्यत्वात् तुरगशृङ्गादिवन्निरुपाख्यत्वं
प्रसक्तमित्यत्राह – स्वसंविदिति; स्वप्रकाशम् अवेद्यत्वे सति
;
अपरोक्षव्यवहारयोग्यमित्यर्थः, 'अत्रायं पुरुषः स्वयंज्योतिः '
'आत्मनैवायं ज्योतिषास्ते' इत्यादिश्रुतिभ्यः । अत: स्वानु
भवसिद्धे वस्तुनि कः खल्वनुन्मत्तस्तुच्छत्वाशङ्कातङ्कपङ्कमङ्कुरय-
ति । न हि नाहमस्मीति किंचित्प्रत्येति । सुषुप्तेऽपि ' न किंचि
दवेदिषम्' इति वेद्यस्यैव निषेधो न वेदितु: 'यानुभूतिरजामे-
या' 'स्वानुभूत्यैकमानाय इत्याद्याचार्यवचनात् । तथा चाहु-
रभियुक्ताः — 'यत्सिद्धया बहु सिध्यात् स्वानुसंधिविडम्बना ।
तत्कृते मीलिताक्षेभ्यो महद्भयः क्रियते नमः ' इति । स्वयं
विदिति स्वयं ज्ञानस्वरूपमित्यपि ज्ञानादिगुणत्वोक्तिनिरसन य
साधितं ज्ञेयम्, 'तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः क्रू-
त्लो रसघन एव एवं वा अरे अयमात्मानन्तरोऽबाला:
कृत्स्न: प्रज्ञानघन एव इति श्रुतेः । नित्यानन्दम् अनार
सुखं परमप्रेमास्पदत्वात् 'आत्मनस्तु कामाय सर्वे प्रिय
भवति' इति श्रुतेः । नित्येति भङ्गुरसुखव्यावृत्तिः ।
अबाध्यत्वपर्यायेण नित्यत्वेन सत्यत्वमप्युक्तम्,
 
'सत्यम
 
6
 
१३२
 
णि नास्तीति भावः ।
 
6