This page has been fully proofread once and needs a second look.

विष्णुपादादि-
णि नास्तीति भाव: । अतीतः पन्थानं तव च महिमा
 
सा
 
-
 

वाङ्मनसयोरतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इति

भट्टाचार्यैरप्ययमर्थः प्रतिपादित: । वाङ्मनसागोचरत्वं
सा-
धितं चेत्, तर्हि प्रमाणशून्यत्वात् तुरगशृङ्गादिवन्निरुपाख्यत्वं

प्रसक्तमित्यत्राह – स्वसंविदिति; स्वप्रकाशम् अवेद्यत्वे सति
;

अपरोक्षव्यवहारयोग्यमित्यर्थः, 'अत्रायं पुरुषः स्वयंज्योतिः '

'आत्मनैवायं ज्योतिषास्ते' इत्यादिश्रुतिभ्यः । अत: स्वानु
-
भवसिद्धे वस्तुनि कः खल्वनुन्मत्तस्तुच्छत्वाशङ्कातङ्कपङ्कमङ्कुरय-

ति । न हि नाहमस्मीति किंचित्प्रत्येति । सुषुप्तेऽपि ' न किंचि

दवेदिषम्' इति वेद्यस्यैव निषेधो न वेदितु: 'यानुभूतिरजामे-

या' 'स्वानुभूत्यैकमानाय' इत्याद्याचार्यवचनात् । तथा चाहु-

रभियुक्ताः — 'यत्सिद्ध्या बहु सिध्यात् स्वानुसंधिविडम्बना ।

तत्कृते मीलिताक्षेभ्यो महद्भयः क्रियते नमः ' इति । स्वयं

विदिति स्वयं ज्ञानस्वरूपमित्यपि ज्ञानादिगुणत्वोक्तिनिरसन य
नाय
साधितं ज्ञेयम्, 'तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः क्रूकृ-
त्लो

त्स्नो
रसघन एव एवं वा अरे अयमात्मानन्तरोऽबालाह्य:

कृत्स्न: प्रज्ञानघन एव इति श्रुतेः । नित्यानन्दम् अनार
नश्वर-
सुखं परमप्रेमास्पदत्वात् 'आत्मनस्तु कामाय सर्वेवं प्रि
यं
भवति' इति श्रुतेः । नित्येति भङ्गुरसुखव्यावृत्तिः ।

अबाध्यत्वपर्यायेण नित्यत्वेन सत्यत्वमप्युक्तम्,
 
'सत्य
 
6
 
१३२
 
णि नास्तीति भावः ।
 
6
 
म्