This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
१३१
 
देहयोस्तद्धर्माणां चेत्यर्थः । व्यपगमः अविद्याध्यस्तत्वेन मि
थ्यात्वम् । तेन कथनं तवारेण प्रतिपादनम्, बाध्यानामधिष्ठाने
नाबाध्य मानत्वात् सत्यम्, अपरिलुसदृक्स्वरूपत्वात् ज्ञानम्, प
रमप्रेमास्पदत्वादानन्दम्,
अपरिच्छिन्नत्वाद नन्तं च यत्परिशिष्टं
तदिति भङ्गया प्रकाशनमित्यर्थः, 'अवचनेन प्रोवाच इति
श्रुतेः। श्लाघयितुमभिनन्दितुं येषाम् । वेदवादाः श्रुत्यन्तोतयः
इत्यनेन परस्वरूपनिरूपणपराणां च तटस्थ स्वरूपलक्षणप्रतिपा
दकानामवान्तरवाक्यानां प्रवृत्तिः प्रतिपादिता । 'यतो वा इ.
मानि भूतानि जायन्ते' 'सत्यं ज्ञानमनन्तं ब्रह्म ' ' आनन्दो
ब्रह्म ' ' नेति नेत्यात्मा' 'नेह नानास्ति किंचन' 'अस्थूलम-
नण्वहस्वमदीर्घम्' इत्यादिवचनैः । यस्मादित्युक्तेर्यस्मिन्निति
विभक्तिविपरिणामेन योजनीयम् । यस्मिन् विषये वर्तन्त इति
शेषः । अथवा, निवृत्ता इति अत्रापि संबध्यते, तेषामपि फलतो
निवृत्तत्वात् । पूर्वभागस्य कर्मप्रतिपादकस्य ज्ञानप्रतिपादको
त्तरभागशेषत्वात् शेषिण एव मुख्यत्वम् । अतो वेदान्ताना-
. मेव मुख्यं वेदत्वमित्यभिप्रेत्य वेदवादाः इत्युक्ति: । अतो वा
ङ्मनसागोचरत्वोक्तिरौपनिषदत्वाद्युक्तिश्च न विजाघटीतीति भा
वः । आगमोऽप्यात्मन्यध्यारोपिताविद्यानिवर्तकत्वेन ब्रह्मात्म-
नोरेकत्वप्रतिपत्तिं प्रति प्रमाणत्वं प्रतिपद्यत इति आचार्य-
वचनात् । प्रमाणाद्धेयातिशयत्वं हि परप्रकाश्यत्वं तच्च ब्रह्म-