This page has been fully proofread once and needs a second look.

विष्णुपादादि-
-
 
त्राह – स्वार्थालाभात् स्वं मुख्यम् अर्थं वाच्यम्, अलाभात्

जात्यादिद्वारविरहात् अप्राप्य । ततो हेतोः लक्षणामीक्षमाणाः

मुख्यां वृत्तिं परित्यज्य लक्षणावृत्तिमङ्गीकुर्वाणाः, 'मानान्त-

रविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूतप्रतीते-

र्लक्षणेष्यते ' इति ' मुख्यार्थबाधे तद्योगे रूढितोऽर्थप्रयोजनात् ।

अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया' इत्यादिना

आचार्यैर्लक्षिता लक्षणावृत्तिः । सा च त्रिविधा; जहत्स्वार्था

अजहत्स्वार्था जहदजहत्स्वार्था चेति । तत्र तृतीया द्विधा

श्रुत्या कटाक्ष्यते, 'तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।

सेयमित्यादिवाक्यस्थपदयोरिव नापरा' इत्याचार्यवचनात् ।

'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'अयमात्मा ब्रह्म इत्यादिब्र
-
ह्यात्मपरेषु महावाक्येषु मुख्यार्थबाधमूलत्वं च तत्प्रवृत्तेर्दर्शि-

तम् । 'प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते

यतस्तस्माल्लक्षणा संप्रवर्तते' इति, 'सोऽयं विद्वानित्यव
-
बोधस्तव यद्वद्देशं कालं चापि विरुद्धं प्रविहाय । तद्वत्कर्तृत्वा
-
दिविरुद्धं यदिहास्तीत्युक्त्वा सर्वेवं तत्सदसि त्वं परिशिष्टम् '

इत्यादिवचनैः महावाक्यानामियं गतिर्दर्शिता । तत्राप्यत
ह्
-
द्व्
यावृत्तिरूपेण कथमपि प्रतिपादयति, साक्षाद्विधेस्तावद गोचर
-
त्वादित्याह- परार्थव्यपगमकथनश्लाघिनः परस्य अन्यस्य त
-
स्मादित्यर्थात्, अतद्भूतस्येत्यर्थः । अर्थस्य वस्तुनः स्थूलसूक्ष्म
 
:
 
१३०
 
"
 
1