This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
वाचः वागिन्द्रियशक्तयः । निवृत्ताः पराचीनं प्रसृताः,

स्वकर्मभूतवचनव्याप्यत्वाभावात् । जात्यादिद्वारा हि वाचो

वक्तव्याभिव्याप्तिः । जात्यादिहीनमनुभवैकगोचरं सा कथं

विषयी कुर्यात्, 'यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव

ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति श्रुतेः । निवृत्तेर्वि-

रामार्थत्वात् यस्मादिति पञ्चमी । 'अगोचरे वागिव चोप-

रेमे' इति, 'इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि

न तदाख्यातुं सरस्वत्यापि शक्यते' इत्याग्राद्याप्तवचनात् ।

मनसेत्यन्तःकरणोपलक्षणम्, 'यन्मनसा न मनुते येनाहुर्मनो

मतम् ' 'न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजा-

नीयाः ' इति श्रुतिभ्यः । मनसा समं सहेति तस्यापि मूर्ति-

मेवानुध्यातुं सामर्थ्यादत्र च तदभावादिति भावः । मनसा

संकल्पितस्यापि 'वचनलिङ्गाद्धि वक्तुरभिप्राय: ' इति न्या-

यात् वाग्व्यापारमन्तरेण बालमूकादिविज्ञानसदृशत्वाद्वाच एव

प्राधान्यमिति मनसा सममित्युक्तिः, 'सहयुक्तेऽप्रधाने

इति स्मरणात् । अनया चोक्त्या 'यतो वाचो निवर्तन्ते ।

अप्राप्य मनसा सह ' इति श्रुतिवाक्यमनुस्मार्यते । तर्हि

' तं त्वौपनिषदं पृच्छामि', 'वेदान्तविज्ञानसुनिश्चितार्थाः',
 
-
 
9
 
'

' सर्वे वेदा यत्पदमामनन्ति', 'वेदैश्च सर्वैरहमेव वेद्यः

इत्यादिश्रुतिस्मृतिवचनानां संगतार्थत्वं कथं नामाभूत् इत्य-
9
 
१२९
 
-
 
"