This page has been fully proofread once and needs a second look.

१२ विष्णुपादादि-
!
 

 
स्वरूपं स्वमनारोपितं रूपं विग्रहम्, आयुधत्वादीनां जग-

दनुग्रहायारोपितत्वात् । क्षणमुखम्, 'अष्टादशनिमेषास्तु काष्ठा

त्रिंशत्तु ताः कला: तास्तु त्रिंशत्क्षणस्ते । तु मुहूर्तो दाद-

शास्त्रियाम् ' इति लक्षित क्षण आदिर्यस्य । सूक्ष्मावयवत्व-

सामान्यात् क्षणशब्दो लक्षणया लवमाह । 'नलिनीपत्रसंहत्याः
 
१२
 

 
..
 

कृते सूच्यभिवेधने । दले दले तु यः कालः स कालो लव

उच्यते' इति लवस्यैवाद्यावयवत्वेन व्यवहारात् । अखिलं

समग्रम् , प्रलयावसानमित्यर्थः । ' लवादिः प्रलयान्तश्च '

इति सूक्ष्मस्थूलयोराकारयोरागमेषु परिच्छिन्नत्वात् लवमारभ्य

परार्धब्रह्मायुरवसानप्रवृत्तप्राकृतलयावसानमित्यर्थः । अथवा

क्षण एव कालस्यान्त्योंशः; यथापकर्षपर्यन्तद्रव्यं परमाणुः,

एवमपकर्षपर्यन्तः : । कालः, 'प्रकृतेर्गुण साम्यस्य निर्विशेषस्य

मानव । चेष्टा यतः स भगवान् काल इत्युपलक्षित: ' इति श्री-

भागवते , 'अथ सूक्ष्मा परा शक्ति: कालात्मनि महदपनि
ॽ।
अस्मान्निष्क्रम्य संक्रान्ता विप्रुडनेरिवायसी' इति शिवाय

वीये लक्षितं चिरमिति प्रत्ययात् साधारणकारणमाद्यन्त-

व्यापकं तत्त्वविशेषः । एतमिति, सर्वलोकप्रसिद्धत्वा सुनयः,

तिथिवारनक्षत्रादिरूपेण आबालगोपालं प्रसिद्धतममित्यर्थः ।

सूरयः, पराशरबादरायणप्रभृतयः सर्वज्ञा: आहुः कथयन्ति,

'त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके । संवत्सरमये कृत्स्नं
 

 
-