This page has been fully proofread once and needs a second look.

विष्णुपादादि-
कलियुग कलुषनिरसनेन कृतयुगस्थापनादिभिः काल्क्यस्य चा
-
वतारस्य जगद्धितकरणप्रसिद्धेश्च । ते यच्छब्देन परामृष्टाः ।

एते अतीतानागतत्वेऽपि भावनावशात् वर्तमानत्वेन भक्तेरनु-

मीयमाना इत्यर्थः । पायासु: रक्षन्त्विति आशिषि लिङ् । अत्र

स्वभावोक्तिरतिशयोक्तिर्भाविकं चालंकारः । अवतारस्वभाव-

वर्णनात् कारुणिकत्वातिशयस्य भारखिन्नत्वेनाध्यवसायादती-

तानागतानां प्रत्यक्षायमाणत्वाच्च ॥ ४९ ॥
 
१२८
 

 
अथ भक्ताभ्यवपत्तये मूर्तत्वेन विवृत्तमूर्तं सकलजगदधि-

ष्ठानं सच्चिदानन्दैकरसं वस्तु भङ्ग्योपास्ते । अमूर्तानुप्रवेशा-

न्मूर्तोपासनस्य ; 'संधानस्य तु लक्षार्थं तस्य रूपमिदं स्मृतम्'

इति, 'यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते पृथक् । नाग्नि-

रानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः' इति वायूक्तेः ।

'क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गति-

र्
दुःखं देहवद्भिरवाप्यते' इति भगवद्वचनात् । 'उपाय: सोऽ-

वताराय नास्ति भेदः कथंचन' इत्याचार्यवचनाच्च-
-
 

 
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः

स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।
 

नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब-

च्छायापस्त्त्यापिनित्यंसुखयतियमिनोयत्तदव्यान्महो नः ॥