This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
१२७
 
इत्यत्राह- भुवनहितकरा: भुवनस्य स्थावरजङ्गमात्मकस्य
हितं श्रेयः तस्य करा: ; न तु प्रीतिमात्रं तत्र पित्रोरिवेत्यर्थः ।
स्तनंधयस्येव भुवनस्य हितापरिज्ञानात् । 'कृञो हेतुताच्छा-
ल्यानुलोम्येषु' इति ताच्छील्ये टः । तत्र हेतु: धर्मसंस्था-
पनार्था: धर्मस्य वर्णाश्रमाद्यानुगुण्येन श्रुत्या कर्तव्यत्वेन नो-
दितस्यार्थस्य सम्यक् स्थापनं स्थिरीकरणं प्रयोजनं येषाम् ।
'स्वे स्वे कर्मण्यभिरतः सिद्धिं विन्दति मानव : ' इति,
 
धर्मो माता पिता धर्मो धर्मा ज्ञातिस्तथा सुहृत् ।
धर्मः स्वर्गश्च मोक्षश्च धर्मः स्वामी परंतप ' इत्यादि.
वचनैः यथा यथा धर्मानुष्ठानस्यैव विहितत्वात्, धर्म-
स्य च परिपन्थिनिरासेन स्वयमनुष्ठानेन च भगवदवतारे-
जैव संस्थाप्यमानत्वादिति भावः । 'परित्राणाय साधूनां
विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे
युगे' इति, 'यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः । मम
वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः' इत्यादिभगवद्वचनात् ।
दानवापहृतत्रयीप्रत्याहरणादिभिर्मात्स्यस्य, मन्दरोद्धारणादि-
मिः कौर्मस्य, धरणीमण्डलोद्धरणादिभिर्वाराहस्य, हिरण्यव-
धादिभिर्नारसिंहस्य, बलिबन्धनादिभिर्वामनस्य, दुष्टक्षत्रक्षप-
णादिमिर्जामदग्न्यस्य, रावणप्रमापणादिभिः काकुत्स्थस्य, पूत-
नापातनादिभिः कार्ष्णस्य, त्रिपुरासुर बिप्रलम्भादिभिः बौद्धस्य,