2023-02-16 09:31:42 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादि-
:
तामिति विमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्य-
म्' इति भागवतोक्तेः । ' इत्युक्ते भगवांस्तेभ्यो मायामोह
शरीरतः । समुत्पाद्य ददौ विष्णु: प्राह चेदं वचः सुरान् ' इति
श्रीविष्णुपुराणवचनात् । बलभद्रस्य तु शेषावतारत्वेन प्रसिद्धे-
श्वेयमुक्तिः । 'मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः । रामो
रामश्च बुद्धश्च कृष्ण: कल्की च ते दश इति गणनात !
अत्रापि 'रामो रामश्च रामश्च' इति कैश्चिठ् । स तु
पाठोऽनन्तस्यापि भगवन्मूर्तित्वात् तदवतारस्यापि भगवद-
वतारविवक्षयेति मन्तव्यम् ; कृष्णबलभद्रयोस्तुल्यकालत्वा-
देकस्मिन् काले अवतारद्वयस्यानुपपत्तेः अङ्गभूतानामवता-
रस्य चं प्राधान्याञ्जीकारे लक्ष्मणाद्यवतारेष्वपि ताथाभाव
इति त्रयोदशत्व प्रसङ्गात् । कल्किः भविष्यन्, कल्कि: 'भविता
विष्णुयशसो नाम्ना कल्किर्जगत्पतिः' इति दिव्यदृष्टिभिर्दृष्टा
जगत्यागामित्वेन आदिष्टः कल्किनामा यः स चेति पूर्वोक्तस-
मुच्चयार्थश्चकारः । इतिरध्याहार्यः । इत्यनेन प्रकारेण ये वि
ष्णोर्वासुदेवस्य अंशावतारा: - दीपस्येव दीपान्तरावताराः,
अपरि स्वसामर्थ्यस्यैव कालरूपेण जगति प्रादुर्भावात् । गुरु-
तरकरुणाभारखिन्नाशया: अलघीयसा दयया भारेण दुर्वहेन
अतिशयेन खिन्नः आक्रान्त आशयो हृदयं येषाम् । खिन्न-
त्वेन कार्येण आक्रमणं कारणं लक्ष्यते । तथात्वं कथं ज्ञायत
-
१२६