This page has been fully proofread once and needs a second look.

विष्णुपादादि-
:
 
तामिति विमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्य-

म्' इति भागवतोक्तेः । ' इत्युक्ते भगवांस्तेभ्यो मायामो
हं
शरीरतः । समुत्पाद्य ददौ विष्णु: प्राह चेदं वचः सुरान् ' इति

श्रीविष्णुपुराणवचनात् । बलभद्रस्य तु शेषावतारत्वेन प्रसिद्धे-
श्वे

श्चे
यमुक्तिः । 'मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः । रामो

रामश्च बुद्धश्च कृष्ण: कल्की च ते दश इति गणनात !
त् ।
अत्रापि 'रामो रामश्च रामश्च' इति कैश्चित्पठ्यते । स तु

पाठोऽनन्तस्यापि भगवन्मूर्तित्वात् तदवतारस्यापि भगवद-

वतारविवक्षयेति मन्तव्यम् ; कृष्णबलभद्रयोस्तुल्यकालत्वा-

देकस्मिन् काले अवतारद्वयस्यानुपपत्तेः अङ्गभूतानामवता-

रस्य चं प्राधान्याञ्जीङ्गीकारे लक्ष्मणाद्यवतारेष्वपि ताथाभाव

इति त्रयोदशत्व प्रसङ्गात् । कल्किः भविष्यन्, कल्कि: 'भविता

विष्णुयशसो नाम्ना कल्किर्जगत्पतिः' इति दिव्यदृष्टिभिर्दृष्टा
ट्वा
जगत्यागामित्वेन आदिष्टः कल्किनामा यः स चेति पूर्वोक्तस-

मुच्चयार्थश्चकारः । इतिरध्याहार्यः । इत्यनेन प्रकारेण ये वि
-
ष्णोर्वासुदेवस्य अंशावतारा: - दीपस्येव दीपान्तरावताराः,

अपरि लुप्तस्वसामर्थ्यस्यैव कालरूपेण जगति प्रादुर्भावात् । गुरु-

तरकरुणाभारखिन्नाशया: अलघीयसा दयया भारेण दुर्वहेन

अतिशयेन खिन्नः आक्रान्त आशयो हृदयं येषाम् । खिन्न-

त्वेन कार्येण आक्रमणं कारणं लक्ष्यते । तथात्वं कथं ज्ञायत
 
-
 
१२६