2023-02-16 09:31:42 by ambuda-bot
This page has not been fully proofread.
केशान्तस्तोत्रम् ।
१२५
पासनत्वेन परिणामात्-
मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्य:
काकुत्स्थःकंसघातीमनसिजविजयीयश्चकल्किर्भविष्यन् ।
विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः
पायासुम त एते गुरुतरकरुणाभारखिन्नाशया ये ॥
,
6
मत्स्यः मीनः । कूर्मः कच्छपः । वराहः सूकरः । नरह-
रिणपति: नरः पुरुषः हरिणपतिः सिंह: 'सिंहो मृगेन्द्रः
पञ्चास्यः इत्यमरः । भ्रूणान् हन्ति हरिणानिव हरिणेश:
किशोरकम्' इति हर्षोक्तेः । नरश्वासौ हरिणपतिश्च नरहरि-
णपति: नरसिंहः, कण्ठादुपरि सिंहाकारत्वादधः पुरुषाका-
रत्वाच्च । वामनः अदित्यां कश्यपाजातो मायावदुः ।
जामदग्न्यः जमदग्ने: भार्गवस्थापत्यं परशुराम: । काकुत्स्थ:
ककुत्स्थ इति प्रसिद्धः कश्चिदैवाको राजर्षिः, तद्गोत्रभवो दा-
शरथी राम इत्यर्थ: । कंसघाती कालनेमेरवतारमुग्रसेनसुतं कं-
साख्यं हृतवान् देवकीपुत्रः कृष्ण इत्यर्थः । मनसिजविजयी
मनस इन्द्रियाणां च निग्रहातू कामं जितवानिति बुद्धमुनिः,
' मारजिल्लोकजिजिन: ' इत्यभिधानात् । जिनमुनेरपि भग-
वदवतारेषु दशस्वन्यतमत्वेन भागवतादिप्रसिद्धेः ' लोकान्
।