This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
१२५
 
पासनत्वेन परिणामात्-

 
मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्य:
 

काकुत्स्थःकंसघातीमनसिजविजयीयश्चकल्किर्भविष्यन् ।

विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः

पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥
 
,
 
6
 

 
मत्स्यः मीनः । कूर्मः कच्छपः । वराहः सूकरः । नरह-

रिणपति: नरः पुरुषः हरिणपतिः सिंह: 'सिंहो मृगेन्द्रः

पञ्चास्यः' इत्यमरः । 'भ्रूणान् हन्ति हरिणानिव हरिणेश:

किशोरकम्' इति हर्षोक्तेः । नरश्वाचासौ हरिणपतिश्च नरहरि-

णपति: नरसिंहः, कण्ठादुपरि सिंहाकारत्वादधः पुरुषाका-

रत्वाच्च । वामनः अदित्यां कश्यपाज्जातो मायावदुः ।
टु:।
जामदग्न्यः जमदग्ने: भार्गवस्थापत्यं परशुराम: । काकुत्स्थ:

ककुत्स्थ इति प्रसिद्धः कश्चिदैक्ष्वाको राजर्षिः, तद्गोत्रभवो दा-

शरथी राम इत्यर्थ: । कंसघाती कालनेमेरवतारमुग्रसेनसुतं कं-

साख्यं हृतवान् देवकीपुत्रः कृष्ण इत्यर्थः । मनसिजविजयी

मनस इन्द्रियाणां च निग्रहातूत् कामं जितवानिति बुद्धमुनिः,
;
' मारजिल्लोकजिज्जिन: ' इत्यभिधानात् । जिनमुनेरपि भग-

वदवतारेषु दशस्वन्यतमत्वेन भागवतादिप्रसिद्धेः ' लोकान्