This page has not been fully proofread.

विष्णुपादादि-
त यन्नपूर्वम्' इति, 'प्रजाः सृज यथापूर्व याश्च
इति श्रीभागवतवचनात् । 'विरमति महाकल्पे नाभीप-
थैकनिकेतनस्त्रिभुवनपुर: शिल्पी यस्य प्रतिक्षणमात्मभूः ।
किमधिकरणं कीहक्कस्य व्यवस्थितिरित्यसावुदरमविशद्रष्टुं
तस्मै जगन्निधये नमः' इति मुरार्युक्तेश्च । देहाम्भोधिः
समुद्र इव विग्रहः । उपमायाः हेतुमाह - निरवधिः परिच्छे-
दरहितः । 'विष्णोरिवास्यानवधारिणीयमीहक्तया नूनमियत्त-
या वा' इति रघुवंशोक्त: । अमृतम्, मृतं मृतिः त-
दभावः अमृतम् । अमृतस्य च ' इति भगवद्वच-
नात् जननाभाव एवामृतम् । तस्य च मुक्तिमन्तरे-
णासंभवात् मुक्तिरित्यर्थः । अथ मर्त्यो मृतो भवत्यत्र ब्रह्म
समश्नुते' ' एष त आत्मान्तर्याम्यमृतः' इति श्रुतेः । 'अमृत-
त्वाय कल्पते ' इति स्मृतेश्च । अम्भोधित्वारोपात् अमृत-
दानोपपत्तिश्च । देयादित्याशिषि लिङ् । अत्रातिशयोक्तिरु
 
6
 
6
 
पमा चालंकारः ॥ ४८ ॥
 
१२४
 
9
 
अथ 'समस्तशक्तिरूपाणि तत्करोति जनेश्वरः । देवतिर्य-
ङ्मनुष्याख्याश्चेष्टापयति लीलया' इति 'एतन्नानावताराणां
निधानं बीजमव्ययम्' इत्यादिवचनैः जगदनुग्रहाय भगव-
द्विग्रहस्यैव मत्स्याद्याकाररूपेण विवर्तमानत्वात् तानेवावतार -
विशेषानुपास्ते । व्यष्टिभूततदुपासनस्यापि समष्टिभूतवासुदेवो.