This page has been fully proofread once and needs a second look.

विष्णुपादादि-
त यन्नपूर्वम्' इति, 'प्रजाः सृज यथापूर्व याश्च
वं याश्च मय्यनुशेरते'
इति श्रीभागवतवचनात् । 'विरमति महाकल्पे नाभीप-

थैकनिकेतनस्त्रिभुवनपुर: शिल्पी यस्य प्रतिक्षणमात्मभूः ।

किमधिकरणं कीदृक्कस्य व्यवस्थितिरित्यसावुदरमविशद्द्रष्टुं

तस्मै जगन्निधये नमः' इति मुरार्युक्तेश्च । देहाम्भोधिः

समुद्र इव विग्रहः । उपमायाः हेतुमाह - निरवधिः परिच्छे-

दरहितः । 'विष्णोरिवास्यानवधारिणीयमीदृक्तया नूनमियत्त-

या वा' इति रघुवंशोक्ते: । अमृतम्, मृतं मृतिः त-

दभावः अमृतम् । 'अमृतस्य च ' इति भगवद्वच-

नात् जननाभाव एवामृतम् । तस्य च मुक्तिमन्तरे-

णासंभवात् मुक्तिरित्यर्थः । 'अथ मर्त्यो मृतो भवत्यत्र ब्रह्म

समश्नुते' ' एष त आत्मान्तर्याम्यमृतः' इति श्रुतेः । 'अमृत-

त्वाय कल्पन्ते ' इति स्मृतेश्च । अम्भोधित्वारोपात् अमृत-

दानोपपत्तिश्च । देयादित्याशिषि लिङ् । अत्रातिशयोक्तिरु
 
6
 
6
 
-
पमा चालंकारः ॥ ४८ ॥
 
१२४
 
9
 

 
अथ 'समस्तशक्तिरूपाणि तत्करोति जनेश्वरः । देवतिर्य-

ङ्मनुष्याख्याश्चेष्टापयति लीलया' इति 'एतन्नानावताराणां

निधानं बीजमव्ययम्' इत्यादिवचनैः जगदनुग्रहाय भगव-

द्विग्रहस्यैव मत्स्याद्याकाररूपेण विवर्तमानत्वात् तानेवावतार -

विशेषानुपास्ते । व्यष्टिभूततदुपासनस्यापि समष्टिभूतवासुदेवो.
 
-