This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
'कालाध्वनोरत्यन्तसंयोगे' इत्युभयत्र द्वितीया । अन्तमव-
सानं गन्तुं प्राप्तुम्, त्रिभुवनस्येत्यर्थात्, न समर्थः अशक्तः
पुनः पश्चात् भ्रमर इव भृङ्ग इवेत्यनेन यथा निष्पर्यन्ते
गगने स्वशक्त्यविज्ञानेन दूरं भ्रमितुमुद्यच्छमानो भ्रमरः खिन्न-
खिन्नः सन्नपक्ष: क्षितितले विवशः पतति एवमसावपीति
द्योतयति । ' नभः पतन्त्यात्मसमं पतत्रिणस्तथा समं विष्णु-
गर्ति विपश्चितः इति वचनात् । नाभिनालीकनालात्
नाभिकमलस्य नालात् अघोदेशात् । उन्मजन् इत्यनेन तस्य
श्रान्ति विज्ञाय परमकारुणिकेन भगवता स्वतत्त्वज्ञानसाधन-
तयोपदिष्टं तपश्चिरं तप्त्वा प्राप्तं सृष्टिसामर्थ्य प्रकाश्यते । तत्सह-
तच्छ देनान्तर्गतं भुवनं परामृश्यते । तेन तुल्यम् । अ
परमन्यत् बहिर्वृत्ति त्रिभुवन मित्यर्थ: । निर्ममे निर्मितवान् : प्रति-
मानभूतेन हृदये निहितेन तेन तेनोपायेन इदमिदमधिकरणम्
इदमिदंरूपम् इदमिदंनामकमिति निर्णीय स्थावरजङ्गमात्मकं
जगत्ससर्जेत्यर्थः । 'इत्थं समुद्रीक्ष्य तदन्जनालनाडीभिरन्त-
र्जलमाविवेश । नावग्गतस्तत्खरनालनाडी: स वै विचिन्वंस्त-
दविन्दताजः । तमस्यपारे विदुरात्मसर्ग विचिन्वतोऽभू-
त्स महांस्त्रिणेमिः । ततो निवृत्त्या प्रतिलब्धकामः स धिष्ण्य
मासाद्य पुनः स देवः । शनैर्जितश्वासनिवृत्तचित्तो न्यषीद-
दारुद्धसमाधियोगः । स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्य-
क्षम्,
 

 
१२३