This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
'कालाध्वनोरत्यन्तसंयोगे' इत्युभयत्र द्वितीया । अन्तमव-

सानं गन्तुं प्राप्तुम्, त्रिभुवनस्येत्यर्थात्, न समर्थः अशक्तः

पुनः पश्चात् भ्रमर इव भृङ्ग इवेत्यनेन यथा निष्पर्यन्ते

गगने स्वशक्त्यविज्ञानेन दूरं भ्रमितुमुद्यच्छमानो भ्रमरः खिन्न-

खिन्नः सन्नपक्ष: क्षितितले विवशः पतति एवमसावपीति

द्योतयति । ' नभः पतन्त्यात्मसमं पतत्रिणस्तथा समं विष्णु-
गर्ति

गतिं
विपश्चितः' इति वचनात् । नाभिनालीकनालात्

नाभिकमलस्य नालात् अघोधोदेशात् । उन्मज्जन् इत्यनेन तस्य

श्रान्तितिं विज्ञाय परमकारुणिकेन भगवता स्वतत्त्वज्ञानसाधन-

तयोपदिष्टं तपश्चिरं तप्त्वा प्राप्तं सृष्टिसामर्थ्यं प्रकाश्यते । तत्सह-
दृ-
क्षम्,
तच्छ ब्देनान्तर्गतं भुवनं परामृश्यते । तेन तुल्यम् । अ
-
परमन्यत् बहिर्वृत्ति त्रिभुवन मित्यर्थ: । निर्ममे निर्मितवान् :; प्रति-

मानभूतेन हृदये निहितेन तेन तेनोपायेन इदमिदमधिकरणम्

इदमिदं रूपम् इदमिदं नामकमिति निर्णीय स्थावरजङ्गमात्मकं

जगत्ससर्जेत्यर्थः । 'इत्थं समुद्रीवीक्ष्य तदन्ब्जनालनाडीभिरन्त-

र्जलमाविवेश । नावग्गतस्तत्खरनालनाडी: स वै विचिन्वंस्त-

दविन्दताजः । तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभू-

त्स महांस्त्रिणेमिः । ततो निवृत्त्या प्रतिलब्धकामः स धिष्ण्य
-
मासाद्य पुनः स देवः । शनैर्जितश्वासनिवृत्तचित्तो न्यषीद-

दारुद्धसमाधियोगः । स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्य-
क्षम्,
 

 
१२३