This page has not been fully proofread.

१२२
 
विष्णुपादादि-
यत् कलुषं कालुष्यं रागद्वेषादिशाबल्यान्मनसोऽप्रसाद इ
त्यर्थः । तद्रूपस्य तिमिरस्य स्खण्डनं तेजसस्तिमिरप्रतिभटत्वात्
तमस्त्वारोपः । किरीटं मकुटम् । शश्वत् शर्म नित्यमुखम्
आत्मानन्दानुभत्रमित्यर्थः । दिश्यादिति 'दिश अतिसर्जने
इत्यस्मात् आशिषि लिङ् । अत्रातिशयोक्तिरुत्प्रेक्षा चालं-
कारः ॥ ४७ !!
 
इत्थं श्रीपतेः श्रीपादद्वयमारम्य श्रीमत्केशान्तं प्रत्येकम-
वयवानुपास्य, इदानीमवयविनं संपूर्ण विग्रहमुपास्ते–
 
भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका
गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।
उन्मज्जन्नूर्जितश्री स्त्रिभुवनमपरं निर्ममे तत्सदृक्षं
देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥
 

 
भ्रान्त्वा भ्रान्त्वा अनवस्थानेनाटित्वा, वीप्सया प्रतिप्रलया-
वसानं भ्रमः प्रकाश्यते । यदन्तः यस्य देहाम्भोधेरुदरे, त्रिभुवन
मिति उत्तरार्धगतमत्र भ्रान्तिक्रियाकर्मत्वेन संबध्यते । त्रिभुवन
गुरुः स्रष्टृत्वेन त्रैलोक्यस्य पितृवत् पूज्य: : अपिना प्रजाप
त्यादीनां का वार्तेति ग्रोत्यते । अनेकाः बड़ी: । अब्दकोटी:
संवत्सराणां दश अयुतानि । असंख्येयत्वोपलक्षणं चैतत् ।