This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
कुर्वत्पारेपयोधि ज्वलदकृशशिखा भास्वदौर्वाग्निशङ्कां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमः पाठनं तत्किरीटम् ॥
 
१२१
 
i
 
यत्र यस्मिन् । प्रत्युप्तानां विन्यस्तानां रत्नप्रवराणां पद्म-
रागादिरत्नश्रेष्ठानां परिलसतो भूरिणो रोचिष्प्रतानस्य प्रभापट-
लस्य स्फूर्त्या प्रसरेण । मुरारे: मूर्तिर्विग्रहः मणिशतचित -
व्योमवत् सूर्याणां शतेन निबिडमाकाशमिव दुर्निरीक्ष्या निरी-
क्षितुमशक्या । भवतीति शेषः । अतिशयोक्तिश्चेयं यद्यर्थ-
गर्भिणी । ' दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता । यदि भा
सहशी सा स्याद्भासस्तस्य महात्मनः ' इति श्रीभागवतोक्त-
वत् । रत्नानां प्रभाबाहुल्यात् मूर्तेः स्निग्धत्वान्महत्वाच्च ।
पारेपयोधि समुद्रस्य तीरे 'क्षीराब्धेरुत्तरे तीरे' इति
पुराणवचनात् क्षीरोदोत्तरतीरवर्तिनि शाकद्वीपे भगवतो
निवासप्रसिद्धेः । 'पारेमध्ये षष्ठया वा ' इति समासः अ-
लुक् च । ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां दीप्यमाना-
भिर्महतीभिर्ज्वालाभिः बहुलप्रभस्य बडबामुखाग्नेः शङ्कां
संभावनाम् । कुर्वत् शङ्कां जनयत्; स्वप्रभापटलतरङ्ग पिश-
ङ्गीकृतदिगुत्सङ्गनभोऽङ्कणत्वात् । पारेपयोधिभूतत्वादाश्चर्यबु-
द्वित्यते । मध्येसमुद्रमेव बडबाग्निज्वलनप्रसिद्धेः । कलि-
कलुषतम: पाटनम्, कलिर्धर्ममिश्रं चतुर्थ युगम् तेन जनितं