This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
कुर्वत्पारेपयोधि ज्वलदकृशशिखा भास्वदौर्वाग्निशङ्कां

शश्वन्नः शर्म दिश्यात्कलिकलुषतमः पानं तत्किरीटम् ॥
 
१२१
 
i
 

 
यत्र यस्मिन् । प्रत्युप्तानां विन्यस्तानां रत्नप्रवराणां पद्म-

रागादिरत्नश्रेष्ठानां परिलसतो भूरिणो रोचिष्प्रतानस्य प्रभापट-

लस्य स्फूर्त्या प्रसरेण । मुरारे: मूर्तिर्विग्रहः द्युमणिशतचित -

व्योमवत् सूर्याणां शतेन निबिडमाकाशमिव दुर्निरीक्ष्या निरी-

क्षितुमशक्या । भवतीति शेषः । अतिशयोक्तिश्चेयं यद्यर्थ-

गर्भिणी । ' दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा
सह
:
सदृ
शी सा स्याद्भासस्तस्य महात्मनः ' इति श्रीभागवतोक्त-

वत् । रत्नानां प्रभाबाहुल्यात् मूर्तेः स्निग्धत्वान्महत्वाच्च ।

पारेपयोधि समुद्रस्य तीरे 'क्षीराब्धेरुत्तरे तीरे' इति

पुराणवचनात् क्षीरोदोत्तरतीरवर्तिनि शाकद्वीपे भगवतो

निवासप्रसिद्धेः । 'पारेमध्ये षष्ठ्या वा ' इति समासः अ-

लुक् च । ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां दीप्यमाना-

भिर्महतीभिर्ज्वालाभिः बहुलप्रभस्य बडबामुखाग्नेः शङ्कां

संभावनाम् । कुर्वत् शङ्कां जनयत्; स्वप्रभापटलतरङ्ग पिश-

ङ्गीकृतदिगुत्सङ्गनभोऽङ्कणत्वात् । पारेपयोधिभूतत्वादाश्चर्यबु-
द्वि

द्धिर्द्यो
त्यते । मध्येसमुद्रमेव बडबाग्निज्वलनप्रसिद्धेः । कलि-

कलुषतम: पाटनम्, कलिर्धर्ममिश्रं चतुर्थं युगम्, तेन जनितं