This page has been fully proofread once and needs a second look.

विष्णुपादादि-

 
विबुधैरप्यदृष्टस्वरूपाः तेषामपि हस्तिहस्तप्रमाणधारासावित्री-

तत्वात् । तत्र हेतुः - व्याप्तव्योमान्तरालाः कुतश्चिदागत्य

गगनतलं व्यावृण्वानाः इत्यर्थ: । तरलमणिरुचा चञ्चलया

माणिक्यवद्दीप्रप्रभया तटितेत्यर्थः । 'तटित्सौदामिनी विद्युच्चञ्च-

ला चपला अपि' इत्यभिधानात् 'न प्रभातरलं ज्योतिरुदेति

वसुधातलात्' इति शाकुन्तलोक्तवत् । रञ्जिताः अरुणिताः !

अत एव स्पष्टभासः लब्धपरभागतया व्यक्तनैल्या: भगवद्दे-

प्रभाप्रसरवत् नीलाः । दाह्यत्वेन विपक्षभूतानामगरूणां

लघूनां शुष्ककाष्ठादीनां दाको रोषः संरम्भो यस्य तस्या-
मेधूं

ग्नेर्धू
म्याः धूमसंघातरूपा: 'नालैर्विक्षिपताभ्रेषु धूमाग्न्यनिल-

मूर्तिषु' इति पुराणवचनात् । जलस्य स्वामिनः स्वायत्तवृष्टि-

कार्यत्वात् केशा: मेघरूपा: केशाः शिरोरुहा इत्यावृत्या

योजनीयम् । 'यो वर्षमिव भारतम्' इत्यादिवत् । अत्र श्लेष

उत्प्रेक्षा आश्लिष्टशब्द निबन्धन परंपरितरूपकं चालंकारः ॥
 
१२०
 

 
अथ ' सत्यं तु शीर्षाणि सहस्रशीर्ष' इत्यादिवचनात् स-
तु

त्यलोकात्मकं भगवत उत्तमाङ्गं भङ्ग्या उपासमानस्तदलंका-

रभूतं दीपात्मकं किरीटमुपास्ते-

 
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-

स्फूर्त्या मूर्तिर्मुरारेर्गुद्युमणिशत चितव्योमवहुद्दुर्निरीक्ष्या ।