2023-02-16 09:31:41 by ambuda-bot
This page has not been fully proofread.
केशान्तस्तोत्रम् ।
दिव्यमानुषत्वेन दशविधेषु शब्दादिविषयेषु सक्ति: महामोहो
रागश्व, ऐश्वर्याष्टकस्य च प्रतिहत्या विकारस्तामिस्रो द्वेषश्च,
एषामेव भोगान्तराले नाशभीति अन्धतामिस्रोऽभिनिवेशश्च ।
अथवा, अनित्याशुचिदु: खानात्मसु नित्यशुचिसुखात्मख्यातिः
अविद्या, दृग्दर्शनशक्त्योरेकात्मिकेव स्मिता, सुखानुशयी रागः,
दुःखानुशयी द्वेषः, स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवे-
शः - इति लक्षिताः क्लेशा: । तद्रूपाणां पाशानां बन्धरज्जूनाम्,
ऊर्ध्वाध:कर्षणसाधनत्वात् ; 'पुण्यरज्ज्वा व्रजेदूर्ध्न पापरज्ज्वा
व्रजेदः । द्वयं ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ' इति
पुराणवचनात् । प्रणाशम् अत्यन्तोच्छेदम् । विदधतु कुर्वन्तु ।
सम्यग्ज्ञानमन्तरेण तदनुपपत्तेस्तत्संपादयन्त्वित्यर्थः । केशान् प्र-
त्येतत्प्रार्थनं च एषां विशेषतो भक्तानुग्रहसामर्थ्यात् ; 'उवाच
च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारं क्लेशहानिं
करिष्यत: ' इत्यादिपुराणवचनात् । 'ईशस्य केशान् विदुरम्बु-
बाहान्' इति वचनात् मेघपरत्वेनाप्ययं श्लोको योज्यते - सु-
साकारा: पूर्वमव्यक्तरूपाः, यत्र कुत्रचिन्निलीनत्वात् । भगवति
प्रसुप्ते स्वप्तुमारब्धे जगत्प्रलयायोद्यते इत्यर्थ: । 'यदा जागर्ति
विश्वात्मा स तदा नेष्टते जगत् । निमीलत्येतदखिलं माया-
शय्यागतेऽच्युते' इति श्रीविष्णुपुराभवचनात् । 'यो स्वन-
बोधौ तावेव भूतानां प्रलयोदयौ' इत्यादि महाकविवचनाच ।
.