This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
दिव्यमानुषत्वेन दशविधेषु शब्दादिविषयेषु सक्ति: महामोहो

रागश्, ऐश्वर्याष्टकस्य च प्रतिहत्या विकारस्तामिस्रो द्वेषश्च,

एषामेव भोगान्तराले नाशभीति: अन्धतामिस्रोऽभिनिवेशश्च ।

अथवा, अनित्याशुचिदु: खानात्मसु नित्यशुचिसुखात्मख्यातिः

अविद्या, दृग्दर्शनशक्त्योरेकात्मिकेव स्मिता, सुखानुशयी रागः,

दुःखानुशयी द्वेषः, स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवे-

शः - इति लक्षिताः क्लेशा: । तद्रूपाणां पाशानां बन्धरज्जूनाम्,

ऊर्ध्वाध:कर्षणसाधनत्वात् ; 'पुण्यरज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा

व्रजेदःदध: । द्वयं ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ' इति

पुराणवचनात् । प्रणाशम् अत्यन्तोच्छेदम् । विदधतु कुर्वन्तु ।

सम्यग्ज्ञानमन्तरेण तदनुपपत्तेस्तत्संपादयन्त्वित्यर्थः । केशान् प्र-

त्येतत्प्रार्थनं च एषां विशेषतो भक्तानुग्रहसामर्थ्यात् ; 'उवाच

च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारं क्लेशहानिं

करिष्यत: ' इत्यादिपुराणवचनात् । 'ईशस्य केशान् विदुरम्बु-
बा

वा
हान्' इति वचनात् मेघपरत्वेनाप्ययं श्लोको योज्यते - सु-
सा

प्ता
कारा: पूर्वमव्यक्तरूपाः, यत्र कुत्रचिन्निलीनत्वात् । भगवति

प्रसुप्ते स्वप्तुमारब्धे जगत्प्रलयायोद्यते इत्यर्थ: । 'यदा जागर्ति

विश्वात्मा स तदा नेष्टते जगत् । निमीलत्येतदखिलं माया-

शय्यागतेऽच्युते' इति श्रीविष्णुपुरावचनात् । 'यो स्वप्न-

बोधौ तावेव भूतानां प्रलयोदयौ' इत्यादि महाकविवचनाच ।
 
.
 
च्च ।