This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
त्वमिति भावः । कम्बुराजः, शङ्खजातेरेव सार्वभौम:
'राजाहःसखिभ्यष्टच् ' इति टच् । भगवत्करकमलसततसां-
निध्यस्य जगदनुग्रहपरत्वस्य च निरतिशयसुकृतकार्यस्य
शङ्खा तरेष्वसंभवादिति भावः । ' त्रयी तु कम्बुः शङ्खोऽस्त्री '
इति वैजयन्ती । अत्र पूर्वार्धे उपमालंकारः, लक्ष्मी भर्तृभुजा-
ग्रकम्बुराजानां नीलाद्रितुङ्गशृङ्गरजनीनाथ बिम्बानां च बिम्ब-
प्रतिविम्बभावेन निर्देशात् । उपमया भगवतो नीलस्नि-
ग्धप्रभुत्वादि, भुजस्य वृत्तोत्तुङ्गस्थिरत्वादि, कम्बुराजस्य
प्रसन्नधवलवृत्तत्वादि च प्रतीयते । उत्तरार्धे व्यतिरेकोऽधि-
कश्चालंकारः । नीरदौघादस्यातिशयप्रतिपादनात्, आश्रया-
दम्बरत आश्रितानां निध्वानानामाधिक्यकथनाच्चेति सन्त-
व्यम् ॥
 
इत्थं वागर्थप्रतिपत्तये शब्दब्रह्मात्मकं शङ्खराजमुपास्य
इदानं सर्वतो रक्षासिद्धये भगवदायुधानां प्रधानं चकरा-
जमुपा तुमुपक्रमते-
Ti
 
-
 
आहुर य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वान स्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
 
शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्माशुशोभम् ॥