This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
११
 
त्वमिति भावः । कम्बुराजः, शङ्खजातेरेव सार्वभौम:

'राजाहःसखिभ्यष्टच् ' इति टच् । भगवत्करकमलसततसां-

निध्यस्य जगदनुग्रहपरत्वस्य च निरतिशयसुकृतकार्यस्य

शङ्खा न्तरेष्वसंभवादिति भावः । ' त्रयी तु कम्बुः शङ्खोऽस्त्री '

इति वैजयन्ती । अत्र पूर्वार्धे उपमालंकारः, लक्ष्मी भर्तृभुजा-

ग्रकम्बुराजानां नीलाद्रितुङ्गशृङ्गरजनीनाथ बिम्बानां च बिम्ब-

प्रतिविम्बभावेन निर्देशात् । उपमया भगवतो नीलस्नि-

ग्धप्रभुत्वादि, भुजस्य वृत्तोत्तुङ्गस्थिरत्वादि, कम्बुराजस्य

प्रसन्नधवलवृत्तत्वादि च प्रतीयते । उत्तरार्धे व्यतिरेकोऽधि-

कश्चालंकारः । नीरदौघादस्यातिशयप्रतिपादनात्, आश्रया-

दम्बरत आश्रितानां निध्वानानामाधिक्यकथनाच्चेति सन्त-

व्यम् ॥
 

 
इत्थं वागर्थप्रतिपत्तये शब्दब्रह्मात्मकं शङ्खराजमुपास्य

इदानंनीं सर्वतो रक्षासिद्धये भगवदायुधानां प्रधानं चक्ररा-

जमुपा तुमुपक्रमते-
Ti
 
-
 

 
आहुर य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं

ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।

चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
 

शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मामांशुशोभम् ॥