This page has not been fully proofread.

विष्णुपादादि-
6
 
इति । श्रीहरिवंशे 'तत्रायं प्रविशन्नेव जटाभारं समुद्रहन् ।
स सहस्रशिरो भूत्वा शयनायोपचक्रमे । विवृतात्तस्य वद
नान्निश्वासपवनेरिताः । मेघानां पङ्कयो व्योम्नि निष्पतन्ति सह-
शश: । तन वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽमलाः । विष्णु-
र्निद्रामयं योगं प्रविष्टस्तमसावृतम्' इति । देहच्छायोद्गमाभाः
भगवन्मूर्तेः स्निग्धनीलवर्णत्वादूर्ध्वं प्रवृत्ताः तत्प्रभा इवेति
संभाव्यमानाः । रिपुवपुरगरुप्लोषरोषाग्निधूम्या: शत्रुशरीररूप-
मगरुं कालागरुद्रुमं प्लोष्टुं दग्धुं शीलं यस्य । ''लुष दाहे' इत्य-
स्मात् 'सुप्यजातौ गिनिस्ताच्छील्ये ' इति णिनिः । तस्य रोषाग्नेः
कोधात्मकस्य वह्नेः धूम्या : धूमस्य संचया: 'धूम्या वात्या तु
तन्दे सर्वम् ' इति वैजयन्ती । रोषाग्नेरान्तरत्वात् धूमस्योर्ध्व-
प्रवृत्त्यौचित्यम् । अगरुधूम्याग्रहणं भगवत्केशानामपि परिमल-
बहुलत्वात् कार्ष्यातिशयाच्च । केशाः शिरोरुहा: । फेशि-
द्विष: केशिसंज्ञं तुरगरूपमसुरं हृतवत: । केशिद्विष इति
रोषाग्निना केशैश्च संबध्यते । विपुलक्लेशपाशप्रणाशम् ।
विपुला विस्तीर्णा: अनेकजन्मानुभाव्यदु:खहेतुत्वात्, बहुल-
भेदत्वाच्च । अविद्यास्मितारागद्वेषाभिनिवेशा: क्लेशा: – इति
स्मृताः तमोमोहमहामोहतामिस्रान्धतामिस्रापरपर्यायाः पञ्च क्ले.
शाः । प्रकृतिमहदहंकारतन्मात्ररूपेऽनात्माष्टके आत्मधीस्तमः
बविद्या च अणिमाद्यैश्वर्याष्टके लब्धे ममत्वं मोहोऽस्मिता च,
 
११८