This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
वादिं पश्यामि विश्वेश्वर सर्वरूप ' इत्यादिवचनैः । तत्र हेतु:-
व्याप्तव्योमान्तरालाः निर्विवरीकृतो गगनमध्यप्रदेशो यैः । वि
बुधानामपि स्वशक्त्यनुरूपं व्योमैकदेश एव संचरणादिति भा
वः । तरलमणिरुचा औचित्याल्ललाटबन्धादिभूषणमध्यनाय-
कभूतमहानीलप्रभया । रक्षिताः स्पष्टभासः रञ्जिताः रूषिताः ।
अप्यदृष्टस्वरूपा इत्यनेन श्रीहरिवंशकथा अनुस्मार्यते । य
था— 'तारकामयसमरभुवि सकलमसुरकुलमतिनिशितरभ-
चरणमुखशिखिनिवहविरहिहुतममरगणमपि निजपदमनुनिहि
तमतिमुदित हृदयमलम लघुविद धदुदधिदुहितृपतिरमृतजलधि-
सलिललहरिविहरणरसिकमृदुल सुरभिपवन शिशिरितबृहदुपव-
नसततविततषडृतुविभवमनवरसनितर सनक मुखविबुधमुनिजन
नमरणशरणमनुपमरुचिनिजपदमुपगतोरुफणफलकमणितरणि-
ततघृणिपटलमजटिलितहरिदुदरमुरगशयनमभजत । तदवसर
उपचितबलम जितहतमसुरकुलम मितविभवनृपतिसुतमित्रमव-
नितलमवतरदतुलबलविततिभिरधिकभरजनकममरजनसुहृद -
मवनिपुरसुरभिनिवहमवनिवलयमपि भृशविधुरमकुरुत । तत
 
११७
 
उदितहृदयरुजमनिमिषकुलयमममृतजलधिमुपगतमजितविच-
यपरमपरिमितशरनटनपरमसुररिपुवपुरधिगमविधुरमतिकदन-
ममृततदवगमजनितकरुणमतिरसुररिपुरथ निजवपुरखिलदु-
रितशमनममृतमयमिव पुरत उपदधदमरपरिषदरमयत्'-