This page has been fully proofread once and needs a second look.

विष्णुपादादि-
कल्याणम् । अत्र तु शुद्धसंदेहोऽलंकारः । उत्प्रेक्षा वा ॥
 

 
११६
 

 
अथ भगवतः केशानेव संस्थान भेद विशिष्टानुपास्ते-

 
सुप्ताकारा: प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः

व्याप्तव्योमान्तरालास्तरलमणिरुचारञ्जिताःस्पष्टभासः ।

देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाधूिग्निधूम्याः

केशा: केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥
 

 
सुप्ताकारा: शोभनजटारूपाः, भगवतः परमतपस्वित्वात् ;

'समुक्तामणि विद्योतं सचन्द्राम्भोदवर्चसम् । जटाया मण्डलं

कृत्स्नं बिभ्रत् कृष्णवपुर्हरि: ' इति श्रीहरिवंशोक्तेः । 'सुप्ता

जालिनी गरुडा जटा' इति वैजयन्ती । प्रसुप्ते स्वप्नुतुमारब्धे ।

आदिकर्मणि क्तः । भगवति तस्मिन्निति विशेष्योऽध्याहार्यः ।

तस्मिन् केशिदुद्रुहीत्यर्थः; केशिद्विषोऽन्यत्र प्रतीतेः । विबुधैः

देवैरप्यदृष्टस्वरूपाः, ईदृक्तया च न प्रत्यक्षीकृतं स्वरूपं तात्त्वि-

कं संस्थानं येषाम्, तैरपि स्थूलाकारस्यैव दृश्यमानत्वात् ।

बुध अवगमने इत्यस्मात् 'इगुपधज्ञाप्रीकिरः कः ' इति के
के

रूपम् । विशेषेण सर्वेवं बुध्यन्त इति प्रसिद्धानामियं दशा ।

किं पुनरन्येषामित्यपिना व्यज्यते । 'यन्नायं भगवान्ब्रह्
मा
जानाति परमं पदम्' इति, 'नान्तं न मध्यं न पुनस्त-
,
 
-