This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
व्यगुणयोरेकस्योत्कर्षमन्यो यथा न सहते तथा गा
ङ्गा
यमुना च' इति सहपठितयोरावयोर्मध्ये गङ्गा पर
-
मेश्वरस्य त्रिभुवनदुर्लभं कपर्दभारमावसति, अतोऽहमपि

ततः परं स्थानमध्यासिष्ये- इति शिवमौलिगतया स्वर्धु-

न्या स्वर्गनद्या गङ्गया स्पर्धा संघर्ष: तया हेतुना ।

आरुह्य अधिरुह्य
अधिरुह्य
मूर्धानमेवेत्यर्थात् कालिन्दी यमु-

ना । मूर्ध्न: शिरस: । श्रीपतेरिति सर्वत्र संबध्यते ।

गलति प्रवाहबाहुल्यात् सर्वतः क्षरति । नुर्विकल्पे । सकल-


शशिकलाभ्रान्तिलोलान्तरात्मा सकला समुदिता शशिनः

चन्द्रस्य कला पूर्णमण्डलमिति यावत्, कलासामच्ग्र्या एव

मण्डलत्वात् । तद्भ्रान्त्या चन्द्रमाः - इत्यन्यथाबुद्ध्या लोल:

अमृतास्वादवाञ्छया तरल: अन्तरात्मा मनो यस्य । राहुः

सैंहिकेयः । वा-शब्दोऽत्र विकल्पे । वक्त्रं मुखमायाति प्रा-

प्रोनोति । इति - शब्दोऽध्याहार्यः । लोकै: लोकयन्ति दिव्यच-

क्षुषा भगवन्मूर्तितिं पश्यन्तीति लोकाः परमयोगिनः तैः । आ-

लोच्यते विवक्ष्यते 'मुह्यन्ति यत्सूरयः' इति, 'सैषा भगवतो

माया ज्ञानिनामपि मोहिनी' इत्यादिवचनैः तैरप्यद्यापि निर्णे-

तु
मशक्यत्वात् । प्रदिशतु ददतु । सततं सदा अखिलं 'खि-

लमप्रहतं स्थानम्' इत्यमरः । खिलं न भवतीत्यखिलम्;

उपभोगार्हम्, अथवा संपूर्णम् । मङ्गलं भक्तिज्ञानादिरूपं