This page has not been fully proofread.

विष्णुपादादि-
त्यर्थः । 'स्फटिककटकभूमिं नाटयत्येष शैल: ' इति माघो-
कवत् । पट्टी सती चिराय भावनाख्यां नाटिकां नाटये-
दिति विशिष्टे प्रार्थना । उत्तमदेवतासंनिधावेव देवताप्रीण-
नस्य नाट्यप्रयोगस्य मुख्यत्वम्, अन्यत्रामुख्यत्वमिति द्योत-
यितुं कृतमकुटमहादेवलिङ्गप्रतिष्ठे इत्युक्तम् । अत्र समस्त-
वस्तुविषयं सावपवरूपकमलंकारः ॥ ४४ ॥
 
अथ 'ईशस्य केशान् विदुरम्बुवाहान्' इत्युक्तरीत्या
उपास्यामलकावलीमुपास्ते, केशसंस्थानविशेषत्वात्तस्याः
 
माढालीवालिधाम्न: कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्यारु मूर्ध्ना गलति हरशिरः स्वर्धुनीस्पर्धया नु ।
राहुर्वायाति वकं सकलशशिकला भ्रान्तिलोलान्तरात्मा
लोकेरालो ते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
 
च्य
 
अलिधाम्नः भ्रमरवन्नीलप्रभस्य श्रीपतेः कुन्तलाली कु-
न्तरूपतिः, 'कुटिलकुन्तलस्तबकमालिना मौलिना' इत्या-
दिप्रयोगात् । सा कुन्तलाली मङ्गलं प्रदिशत्वित्यन्वयः ।
या लोकैरित्थमालोक्यते । आलोकनप्रकारमाह- कुवल
यकळिता नीलोत्पलैर्ग्रथिता मालाली मालानामावलिः ।
बा- शब्दो विकल्पे । इरशिरः स्वर्धुनीस्पर्धया, लोके हि तु