This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
-
 

 
घोद्धाट्य प्रकर्षेण दूरतोऽपसार्य । एवकारेण तदभावे
नटनदर्शनस्या शक्यत्वात् प्रथमतः प्रोद्धाटनमवश्यं क
र्त्तव्यमिति प्रकाश्यते । आत्मतन्द्रीप्रकटपटकुटीं स्वीयां
सन्द्री कर्तव्याकर्तव्येष्वप्रवृत्तिरूपां मन्दतामेव प्रकटां स्पष्टां
पटकुटीशब्देन पटमण्डपवाचकेनापि अत्र यवनिका विवक्ष्यते ।
यवनिकाप्रोद्घाटनफलमाह - स्फुटाङ्गं प्रस्फुरन्ती रजस्तमोविर-
हात् स्पष्टावयवं यथा तथा प्रकर्षेण प्रकाशमाना । मतेरवयवा
भक्तिविरक्त्यादिगुणाः नट्या: करचरणाद्यङ्गानि । पट्वी
रायनिरसनेन सबला भूत्वेति शेषः । चटुलमतिनटी 'च
हि मनः कृष्ण प्रमाथि बलवदृढम्' इत्युक्तक्रमेण विष
लोला मतिरेव नटी लासिका । भावनाख्यां सदानुसंधानसं-
ज्ञाम् । 'नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना' 'स-
नन्दनादयो भूप ब्रह्मभावनया पुरा' 'ये भावयन्त्यमृ-
तवाहिभिरंशुजालै : ' इत्यादिवचनैः भावनाया वासनार्थत्वा-
वगमात् । नाटिकां नाटकप्रकरणलक्षणविशेषसंकीर्णे प्रबन्ध-
विशेषम् । 'तत्र वस्तुप्रकरणान्नाटकान्नायको नृपः । देवी
तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा । नायिका तादृशी मुग्धा
दिव्या वातिमनोहरा । कैशिक्यङ्गैश्चतुर्भिश्च युक्तारिख ना
टिका' इति धनिकोक्तेः। नर्मतत्पुञ्ज तत्स्फोटतद्गश्चतुरङ्गिको
इत्युक्तानि कैशिक्यज्ञानि । नाटयेत् अभिनयेत् प्रयुतामि-
११३
 
9