2023-02-16 09:31:40 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादि-
नापि सूचिता । अत आह जनिमरणतमः खण्डनं भक्तानां
जननमरणरूपस्य तिमिरस्य नाशकं स्वरूपतिरोधायकत्वात्
तमस्त्वारोप: । मण्डनं सविशेषशोभाजनकत्वात् भगवन्मुखे-
न्दोर्भूषणान्तरेभ्यः प्रकृष्टं भूषणं च पुण्ठं तिलक विशेषः
' तिलकं तमालपत्रकमुक्ताविशेषकं पुण्ट्रम्' इति हलायुधः ।
अत्र रूपकमतिशयोक्तिरुत्प्रेक्षा चालंकारः ॥ ४३ ॥
११२
अथ सावित्रीरूपतिलकाधारत्वेनोपास्यं ललाटतटमुपास्ते ।
'तपोललाटं विदुरादिपुंसः' इति पुराणवचनात् -
-
पीठीभूतालकान्तं कृतमकुटमहादेव लिङ्ग प्रतिष्ठे
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।
प्रोद्वाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं
पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥
पीठीभूतं पीठं जातम् अलकान्तं ललाटस्यावसानमलक
मूलं यथा तथेति क्रियाविशेषणम् । कृता अनुष्ठिता मकुटं
किरीटं तद्रूपस्य महादेवलिङ्गस्य परमेश्वरज्योतिर्लिङ्गप्रति
च्छन्दस्य प्रतिष्ठापनं यत्र मकुटस्यापि वृत्तोन्नतप्रभामयत्वा
दिभिर्लिङ्गत्वारोपः । लालाटे ललाटात्मके नाट्यर नृत्तम.
ण्डपे । विकटतरतटे अतिविस्तीर्णस्थले । कैटभारेः भगवतः ।