This page has been fully proofread once and needs a second look.

विष्णुपादादि-
नापि सूचिता । अत आह जनिमरणतमः खण्डनं भक्तानां

जननमरणरूपस्य तिमिरस्य नाशकं स्वरूपतिरोधायकत्वात्

तमस्त्वारोप: । मण्डनं सविशेषशोभाजनकत्वात् भगवन्मुखे-

न्दोर्भूषणान्तरेभ्यः प्रकृष्टं भूषणं च पुण्ठं तिलक ट्रं तिलकविशेषः

' तिलकं तमालपत्रकमुक्ताविशेषकं पुण्ट्रम्' इति हलायुधः ।

अत्र रूपकमतिशयोक्तिरुत्प्रेक्षा चालंकारः ॥ ४३ ॥
 
११२
 

 
अथ सावित्रीरूपतिलकाधारत्वेनोपास्यं ललाटतटमुपास्ते ।

'तपोललाटं विदुरादिपुंसः' इति पुराणवचनात् -
 
-
 

 
पीठीभूतालकान्तं कृतमकुटमहादेव लिङ्ग प्रतिष्ठे

लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।

प्रोद्वाधाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं

पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥
 

 
पीठीभूतं पीठं जातम् अलकान्तं ललाटस्यावसानमलक
-
मूलं यथा तथेति क्रियाविशेषणम् । कृता अनुष्ठिता मकुटं

किरीटं तद्रूपस्य महादेवलिङ्गस्य परमेश्वरज्योतिर्लिङ्गप्रति

च्छन्दस्य प्रतिष्ठापनं यत्र मकुटस्यापि वृत्तोन्नतप्रभामयत्वा
-
दिभिर्लिङ्गत्वारोपः । लालाटे ललाटात्मके नाट्यरङ्गे नृत्तम.
-
ण्डपे । विकटतरतटे अतिविस्तीर्णस्थले । कैटभारेः भगवतः ।