This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
डो
ट्ठोरुवि आणेणविआ सहस्सत्थ णवेल्लणे विविसहिअजस्स णि-

स्सणावि इतरे विरीएउरेपेम्मेण उहूइओ अप्पाणो ' इत्यादि-

वचनैः । लक्ष्म्याः यः कटाक्षः तद्रूपया प्रोत्फुल्लत्पद्ममालया वि-

कसितमिति शत्रा नवविकाससुभगत्वं व्यज्यते । कमलानां मा-

लया विकसितं शोभितम् । महितं पूजितम् । स्फाटिकं स्फटिक-

मणिनिर्मितम् ऐशानम् ईशानः शिवः तदीयम् । लिङ्गं वृत्तोन-
न्न-
तनिर्विवरविमलत्वात् दीपाकारत्वाच्च अतिशयोक्त्यानुद्भावो-

ऽध्यवसीयते । स्फाटिकत्वोक्तेः कर्पूरपङ्कादिविरचितत्वं पुण्ट्रस्य

प्रतीयते । नयनवदनपुण्डरीकस्य पुण्ट्रकवशात् सविशेषकम-

नीयत्वेन साग्रहं सलज्जं च कटाक्षैर्यद्दर्शनं तत् स्मरविजयिने

भगवते परमेश्वराय स्मरदुर्विलसितं तन्नियमनाय निवेदय -

न्त्यास्तत्प्रसादनार्थे पद्ममालया समर्चनमेवेत्यध्यवसीयते । अ-

थवा लिङ्गमिवेति द्योतकशून्योत्प्रेक्षा । भूयः बहुतरमिति क्रिया-

विशेषणम्, 'बहोर्लोपो भू च बहो: ' इति भूभावे ईयसुनि

च रूपम् । विभूत्यै विशिष्टैश्वर्याय; कैवल्यसुखायेत्यर्थः ।

भुवनपतेः ब्रह्मादिस्तम्बपर्यन्तस्य जगतो नियन्तुः ।

भ्रूलताद्वन्द्वमध्यात् उत्थं भ्रूयुगस्य मध्यात् नासादण्डमूलदे-

शोपरिभागादुद्भूतम् । ऊर्ध्वमलिकान्तं यावदुपरि प्रसृतम् ।

अनेनाज्ञासंज्ञात् ब्भ्रूमध्याधारमूर्ध्वेवं प्रवृत्तस्य परतेजसोऽनुसं-

धानाय तत्प्रतिमारूपेणेदं सद्भिर्धार्यत इति पुष्ण्ट्धारणवास-
१११