This page has not been fully proofread.

विष्णुपादादि-
अथ भगवतः सावित्रीरूपं तिलकमुपास्ते
 
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पद्ममालाविकसितमहितस्फाटिकैशानलिङ्गम् ।
भूयायोविभूत्यै मम भुवनपते भ्रूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ट्रमूर्ध्व जनिमरणतमः खण्डनं मण्डनं च ।
 
११०
 
रूक्षत्वं स्नेहगुणरहितत्वम् । तेनाल निर्दयत्वं लक्ष्यते ।
रूक्षैर्निर्दयै: मर्मणां तुद्यमानत्वात् । स्मारातू कामसंबन्धिनः ।
इक्षुचापात् इक्षुकाण्डमयाद्धनुष: । च्युतैः प्रवृत्तैः । शरनि-
करैः बाणसमूहैः, निकरग्रहणं द्रावणक्षोभणवशीकरणाकर्षण-
संमोहनरूपकर्मपञ्चकनिपुणपञ्चविधबाणत्वेन निमित्तेन पञ्च-
बाणप्रवृत्तेः, तथाविधानां शराणामनन्तत्वाच्चेति ग्राह्यम् ।
स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणश-
तैश्च ददाति दुःखम् ' इति, 'स्मरशरशतप्रहारजर्जरिते हि
मनसि जलमिव गत्युपदिष्टम्' इत्यादिमहाकविप्रयोगानाम-
न्यथा वैयर्थ्यापातात् । क्षीणाया: क्लेशिताया:; भगवत आत्मा-
रामत्वात् स्वतन्त्रत्वाच्च तस्यास्तद्रूपादिगुणगणवशीकृततया
स्त्रीस्वभावाच्च, भोगलिप्सो : स्वेच्छोपभोगसुखस्य दौर्लभ्यात्
क्षीणत्वकथनम् । 'न श्रीर्विरक्तमपि मां विजाति तस्याः
प्रेक्षालवार्थ इतरानियमोऽर्हणेन' इति श्रीभागवतोक्तेः । 'दि-
6