This page has been fully proofread once and needs a second look.

विष्णुपादादि-
अथ भगवतः सावित्रीरूपं तिलकमुपास्ते
 

 
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-

प्रोत्फुल्लत्पद्ममालाविकसितमहितस्फाटिकैशानलिङ्गम् ।

भूयाद्भूयोविभूत्यै मम भुवनपते र्भ्रूलताद्वन्द्वमध्या-

दुत्थं तत्पुण्ट्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं च ।
 
११०
 

 
रूक्षत्वं स्नेहगुणरहितत्वम् । तेनात्र निर्दयत्वं लक्ष्यते ।

रूक्षैर्निर्दयै: मर्मणां तुद्यमानत्वात् । स्मारातूत् कामसंबन्धिनः ।

इक्षुचापात् इक्षुकाण्डमयाद्धनुष: । च्युतैः प्रवृत्तैः । शरनि-

करैः बाणसमूहैः, निकरग्रहणं द्रावणक्षोभणवशीकरणाकर्षण-

संमोहनरूपकर्मपञ्चकनिपुणपञ्चविधबाणत्वेन निमित्तेन पञ्च-

बाणप्रवृत्तेः, तथाविधानां शराणामनन्तत्वाच्चेति ग्राह्यम् ।

स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणश-

तैश्च ददाति दुःखम् ' इति, 'स्मरशरशतप्रहारजर्जरिते हि

मनसि जलमिव गत्युपदिष्टम्' इत्यादिमहाकविप्रयोगानाम-

न्यथा वैयर्थ्यापातात् । क्षीणाया: क्लेशिताया:; भगवत आत्मा-

रामत्वात् स्वतन्त्रत्वाच्च तस्यास्तद्रूपादिगुणगणवशीकृततया

स्त्रीस्वभावाच्च, भोगलिप्सो : स्वेच्छोपभोगसुखस्य दौर्लभ्यात्

क्षीणत्वकथनम् । 'न श्रीर्विरक्तमपि मां विजाजहाति तस्याः

प्रेक्षालवार्थ इतरानियमोऽर्हणेन' इति श्रीभागवतोक्तेः । 'दि-
6