This page has been fully proofread once and needs a second look.

१० विष्णुपादादि-

रणात् । पञ्चजनो नाम शङ्खरूपी समुद्रान्तश्चरः कश्चिदसुर: ;
तद्वधेन गृहीतः तदस्थिसंभवत्वाद्वा पाञ्चजन्यः । हितार्थे भवार्थे
वा तद्धितः । सः, यस्येति यच्छब्देन यः परामृष्टः सः,
तादृश इत्यर्थः । दितिसुतकुलत्रासनैः, दाक्षायण्याः कश्यप-
दाराणां दितेः सुताः पुत्राः हिरण्यकशिपुप्रभृतयः तेषां कुल-
स्य सन्तानस्य विरोचनबलिबाणादीनामित्यर्थः । त्रासनैः,
भयकम्पसंपादकैः । प्रह्लादस्यापि तत्कुल्यत्वेऽपि प्रायिकत्वात्
त्रासनत्वोक्तिः । अथवा तस्यापि भगवतैवाप्रमादाय विनेयत्वा-
त् ; 'भीषा स्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्र-
श्च । मृत्युर्धावति पञ्चम इति ' इति श्रुतेः देवानामपि भगवता
त्रास्यत्वम् ; किं पुनरसुराणामिति द्योत्यते । ' कृत्यल्युटो बहु-
लम्' इति कर्तरि ल्युट् । पूरयन् निर्विवरं कुर्वन् । स्वैः,
हरिमुखपवनपूरणस्य कादाचित्कत्वात् मन्दमारुतापूरणजनि-
तैरात्मीयैः निध्वानैः घोषैः । ' मन्दानिलापूरकृतं दधानो
निध्वानमश्रूयत पाञ्चजन्यः ' इति माघोक्तेः । नीरदौघध्व-
निपरिभवदैः, मेघपरम्पराया गर्जितानां परिभवं गर्वभङ्गं
दातुं शीलं येषां तैः । नीरदैर्बहुभिरपि अम्बरैकदेशस्यापि
पूरणस्याशक्यत्वात् दितिसुतकुलत्रासनस्याप्यकरणात् । अ-
नेन एकेनापि स्वनिध्वानैः सकलस्याप्यम्बरस्य पूरणात्
दितिसुतकुलत्रासनेन लोकानुग्रहाच्च नीरदौघध्वनिपरिभवद -