This page has been fully proofread once and needs a second look.

विष्णुपादादि-
लक्ष्म लाञ्छनं तस्य आकार: संस्थानं स इव आकारो

यस्यास्तया अलकाल्या कुन्तलावल्या स्फुरतः शोभमानस्य अ-

लिकरूपस्य शशाङ्कार्धस्य; 'अर्धेधं नपुंसकम्' इति समांशवा-

चिनो अर्धशब्दस्य पूर्वनिपाते प्राप्तेऽपि 'प्रेम्णा शरीरार्धहरां

हरस्य' इति, 'दिनार्धभाजः परिवेषिणोऽर्कात् ' इत्यादिप्रयोग-

बाहुल्यदर्शनात् साधुत्वम्; संदर्शनेन सम्यग्दर्शनेन मीलतोः

मुकुलीभवतोः, मीलतोरित्युक्तेरसमग्रमीलनत्वमुच्यते, स्वरूपा-

नुसंधानत्वान्निद्रायाः ; नेत्राम्भोजयो : नयनरूपयो: पद्मयोः ;

संदर्शनमीलनमिति योगनिद्रावशात् स्त्रतो मीलनं संदर्श-

नहेतुकमिति संनिकर्षणादतिशयोक्त्या अध्यवसीयते; 'चन्द्र-

दर्शननन्दितायाः स्मितप्रभामिव वनश्रियः' इति काद-

म्बरीप्रयोगवत् । चन्द्रदर्शने पद्मस्य मीलनं प्रसिद्धम् ।

प्रबोधे विकासे उत्सुका उत्कण्ठिताः; अत एव निभृत-

तरालीना अतिनिश्चलं समीपलग्ना; तत्प्रतिपालनेनेत्य-

र्थात् गम्यते । भृङ्गच्छटा भ्रमरमाला तस्या आभा

शोभेव आभा ययो: ; स्निग्धनीलायतत्वात् समीपगत-

त्वाच्च उत्प्रेक्षा । लक्ष्यीकृतः शरव्यं कृतः सेवार्थमागतो

विबुधगणो देवसमूहो येन
देवसमूहो येन
तस्यापाङ्गस्य कटाक्षस्य

बाणासनार्धं धनुरेकदेश: तस्य छायेत्र छाया शोभा ययोः ।

अर्धग्रहणमपाङ्गमोक्षस्य भ्रूकोटिमात्रसंबन्धात् । बाणास-
१०८