This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
कृष्णसर्पयोर्युगमिव । 'वा विकल्पोपमानयोः समुच्चये

च' इति वैजयन्ती । शोभते लसति । चकारो येनेत्युक्त-

स्य विपरिणामेन यच्चेत्यनुकर्षणार्थ: । वालिका कर्णभू-

षणविशेष: 'वालिका कर्णपृष्ठे स्वे' इति वैजयन्ती ; 'वकुल-

फलानुकारिणीभिस्तिसृभिर्मुक्ताभिर्विरचितेन वालिकायुगलेन'

इति हर्षप्रयोगाच्च । सैव माता जननी कालव्यालद्वयस्येत्यर्था-

त् ; वालिकायाः कुटिलायतत्वात् व्यालीसाम्यात् । तां समया

तस्याः समीपे ; ' अभितः परितः समयानिकषाहाप्रतियोगेषु

च दृश्यते' इति द्वितीया । अयमर्थः – कर्णपृष्ठस्थयोर्वालिक-

योः समीपे ललाटरङ्गे नृत्यत् यच्च भ्रूयुगं स्वजनन्योर्वालिकयोः

परिसरे हर्षानृत्यतोः कालव्यालयोर्द्वयवत् लसति, तत् भ्रूयुगं

नः पातु इति । अत्रोत्प्रेक्षालंकारः । स्वाभाविकस्निग्धनीलाय-

तत्वं भुग्नमध्यत्वं च उत्प्रेक्षानिमित्तम् । सौम्यत्वेऽपि सकल-

प्रपञ्चभयजनकत्वं च व्यङ्ग्यम् ॥ ४१ ॥
 
-
 

 
पुनः प्रकारान्तरेण भ्रूलते उपास्ते--

 
लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसंदर्शमील-

न्
नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे ।

लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध-

च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥
 
-