This page has been fully proofread once and needs a second look.

विष्णुपादादि-
मुने' इति श्रीविष्णुपुराणवचनात् । पतगपतिगतेः पक्षिरा-

जेन गरुडेन वाहनभूतेन गमनं यस्य तस्य भगवतः ।

भ्रूयुगं चिल्लीद्वयम् । भुग्नमध्यं' कुटिलमध्यम् । 'भुजकौटि-

ल्ये' इत्यस्मान्निष्ठा । तदित्यायाति । ईषञ्च्चालितेन कोपसूच-

कतया किंचित् कम्पितेन स्वपदनियमिताः स्वे पदे निजे

अधिकारे नियन्त्रिताः अस्वातन्त्र्येण स्थापिता इत्यपि ।

विनयोपक्रमात् भगवद्भयाच्च स्वाधिकारादचलत्वं च द्यो-

त्यते, 'भीषास्माद्वातः पवते । भीषोदेति सूर्यः
'
इति श्रुतेः । सासुरा: असुरैः वैरोचन्यादिभिः सहिताः ।

देवसंघाः इन्द्रादिदेवसमूहाः । देवासुरग्रहणं प्राधान्यात् ;

अन्येषां कैमुतिकन्यायेन नियमनसिद्धेः; 'तेन विना तृणा-

ग्रमपि न चलति' इति वचनात् । नृत्यत् विलासेन चलत्

लालाटरङ्गे लालाटं ललाटस्या दूरभवं तत्प्रान्तमित्यर्थः ।

तन्मये नृत्यमण्डपे 'अदूरभवः' इत्यण् । स्वार्थे वा ललाट-

मेव लालाटम् – प्रतिभैव प्रातिभमित्यादिवत् । रजनिकर-

तनोः पूर्णचन्द्रमूर्तेः । अर्धखण्डावदाते 'अर्धेधं नपुंसकम्'

इति स्मृतेः समोंऽशोऽर्धखण्ड: । 'शकलखण्डे वा पुंस्यर्धो-

र्धं समेंऽशके' इत्यमरः । प्रान्तार्थत्वे मूर्धन्यखण्ड एक-

देश इत्यर्थ: तद्वच्छुद्धलावण्ये अष्टमीचन्द्रसुन्दरे इत्यर्थः ।

महापुरुषललाटस्याष्टमीचन्द्रसाम्यप्रसिद्धेः । कालव्यालद्वयं वा
 
१०६
 
9