This page has been fully proofread once and needs a second look.

विष्णुपादादि-
नानुमानसाध्यत्वमात्रमनयोः; अपि तु प्रत्यक्षप्रमाणसिद्धत्वात्

नास्तिकनिव हनिरसनरभसशरभत्वं च प्रकाश्यते । ते-

भ्योऽनयोः कोऽतिशय:, इत्यत्राह - त्रैलोक्यालोकदीपौ,

त्रैलोक्यस्य भूर्भुवः स्वरात्मनः लोकत्रयस्य आलोके

प्रकाशने दीपवत् प्रवृत्तेर्दीपौ । अतः अनयोः प्रवृ
-
त्
त्यभावे सर्वस्य व्यवहारोच्छेदप्रसङ्गः इति दृष्टमुखेनाप्युप-

कारगौरवं प्रकाश्यते । रवीन्दू सूर्याचन्द्रमसौ; अभ्यर्हितत्वात्

पूर्वनिपातः । ययोः नेत्रयोः । रूपं तात्त्विकं स्वरूपमेव ; तत्र

न कस्यचिद्विमतिरित्यर्थ: । मुनीन्द्राः दिव्यचक्षुः संपन्नतया

मुनीनां श्रेष्ठाः पराशरादयः । मौनान्मुनिर्भवति न

अरण्यवासान्मुनिः, 'अक्षरं तत्तु यो वेद स मुनिश्रेष्ठ

उच्यते' इति महाभारतोक्तेः । अभिदधति कथय-

न्तीति, 'चक्षुषी चन्द्रादित्यौ' अक्ष्णोः सूर्यो अजा-

यत' इत्यादिश्रुतिमुखेन 'अक्ष्णोः सूर्योऽनिलः प्रा-

णात्' 'अनन्तबाहुं शशिसूर्यनेत्रम्' इत्यादिस्मृतिमुखेन

च इत्यर्थ: । 'विभुरिन्द्वर्कविलोचनः किलासौ' 'कोकप्रीति-

चकोरपारणपटुज्योतिष्मती लोचने' इत्यादि महाकविवच-

नात् । अब्जप्रभे पद्मसदृशशोभे :; अब्जशब्देनात्र सिताम्भोज-

मुच्यते, सामर्थ्यात् । अत आह — आताम्रशुक्लासित रुचिरुचिरे

अपाङ्गदेशे सितभागे तारकायां च क्रमात् रक्तया शुक्लया
 
;
 
१०४
 
6