This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
अथ रवीन्दुरूपेणोपास्ये श्रीमल्लोचने उपास्ते-
दिकालो वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्द्
त्रैलोक्यालोकदीपावभिद्धति ययोरेव रूपं मुनीन्द्राः ।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ।
 
१०३
 
दिश: प्राच्याद्याः कालमहोरात्रादिम् । वेदयन्तौ स्वचा-
रेण ज्ञापयन्तौ ; स्वोदयास्तमयोपाधिजन्यत्वात् प्राच्यादि-
व्यवहारस्य । यथाह मुरारि: – 'औपाधिकप्राच्यादिव्यवहा
रबीजविरहाद्दिङ्मात्रमेव स्थितम् –' इति । मूलत्वाच
अहोरात्रादिव्यवहारस्य, 'उदयास्तमयाभ्यां हि स्मृते पूर्वा
परे दिशौ' इति, 'अहोरात्र व्यवस्थानकारणं भगवान् रवि : '
इति च श्रीविष्णुपुराणवचनात् । चन्द्रस्याप्युपलक्षणमेतत् । तत्र
हेतुः जगति मुहुः संचरन्तौ, लोके अनुक्षणमविश्रान्त्या
पर्यटन्तौ । वेदयन्तावित्यनेन दिक्कालापेक्षत्वात् वैदिकता-
न्त्रिककर्मानुष्ठानस्य तज्ज्ञानस्य च एतदधीनत्वात् आमुष्मि-
कसुखरूपपरमोपकारकर्तृत्वं द्योत्यते । विपर्यये धर्मोच्छेदात्
जगदुच्छेदः । संचरन्तावित्यनेन परोपकारैकतात्पर्य स्वसुखनि
रभिलाषत्वं च व्यज्यते । इमाविति देवतान्तरवत्
 

 
-