This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
अथ रवीन्दुरूपेणोपास्ये श्रीमल्लोचने उपास्ते-
दि

 
दिक्
कालोलौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्द्
दू
त्रैलोक्यालोकदीपावभिद्धति ययोरेव रूपं मुनीन्द्राः ।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे

पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ।
 
१०३
 

 
दिश: प्राच्याद्याः कालमहोरात्रादिम् । वेदयन्तौ स्वचा-

रेण ज्ञापयन्तौ ; स्वोदयास्तमयोपाधिजन्यत्वात् प्राच्यादि-

व्यवहारस्य । यथाह मुरारि: – 'औपाधिकप्राच्यादिव्यवहा
-
रबीजविरहाद्दिङ्मात्रमेव स्थितम् –' इति । मूलत्वा
च्च
अहोरात्रादिव्यवहारस्य, 'उदयास्तमयाभ्यां हि स्मृते पूर्वा
-
परे दिशौ' इति, 'अहोरात्र व्यवस्थानकारणं भगवान् रवि : '

इति च श्रीविष्णुपुराणवचनात् । चन्द्रस्याप्युपलक्षणमेतत् । तत्र

हेतुः जगति मुहुः संचरन्तौ, लोके अनुक्षणमविश्रान्त्या

पर्यटन्तौ । वेदयन्तावित्यनेन दिक्कालापेक्षत्वात् वैदिकता-

न्त्रिककर्मानुष्ठानस्य तज्ज्ञानस्य च एतदधीनत्वात् आमुष्मि-

कसुखरूपपरमोपकारकर्तृत्वं द्योत्यते । विपर्यये धर्मोच्छेदात्

जगदुच्छेदः । संचरन्तावित्यनेन परोपकारैकतात्पर्यं स्वसुखनि

रभिलाषत्वं च व्यज्यते । इमाविति देवतान्तरवत्
 

 
-