This page has been fully proofread once and needs a second look.

विष्णुपादादि-
किरणै: शोणीकृतात्मा अरुणीकृतमूर्तिः । घोण: नासा-

दण्डः । 'शिरोवदनवृत्ते दृक्शब्दश्रवणघोणगण्डोष्ठद्वयेषु

सशिरोमुखेषु च इति न्यसेन्मन्त्रवित्' इत्याद्यभियुक्तोक्तेः पुं-

लिङ्गतोपपद्यते । प्राणाख्यस्य नाभेरूर्ध्वं प्रवर्तनात् प्राणनाम्नः ।

अनिलस्य वायोरित्यनेन एकस्यैव वायोरूर्ध्वाधोगमनादिवृत्ति-

भेदात् प्राणापानादिव्यवहार इति व्यञ्जयति । प्रसरणसरणिः

प्रवृत्तिमार्गः उत्पत्तिस्थानमित्यर्थः । 'नासिके निरभिद्येतां

नासिकाभ्यां प्राणः प्राणाद्वायुः प्राणो भूत्वा नासिके प्रावि-

शत्' इति श्रुतेः, 'अनन्तवीर्यश्वसितं मातरिश्वा' इति

पुराणवचनाच्च । य इत्युक्ते स इत्यायाति । नः प्राणदानाय

जीवितं दातुम् । स्तात् भवतु । आशिषि लोट् । भगवद्भक्ते-

रे
व जन्मफलत्वात् तदभावे श्वसच्छवत्वात् तद्दानमेव प्राण-

दानमिति भावः । 'तं सत्यमानन्दनिधिं भजेत नान्यत्र

ज्जेद्यत आत्मघातः ' 'आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्न-

सौ । तस्यर्ते यः क्षणो नीत उत्तमश्लोकवार्तया' इत्यादिपुराण-

वचनात् । अत्र वक्त्राम्भोजे अधरमणिमिति च केवलं नियम-

रूपकम् । पक्बिम्बाभिराममित्यत्र भ्रान्तिभ्रान्तं दृष्ट्वा तुण्डदण्ड

इवेत्युत्प्रेक्षा । क्यङोऽप्युपमा उत्प्रेक्षायां पर्यवस्यति । शोणी-

कृतात्मेत्यत्र तद्गुणः, स च भ्रान्तिमुत्थापयतीति अङ्गाङ्गिभा-

वेन संकरोऽलंकारः ॥ ३९ ॥
 
१०२
 
-
 

 
 
 
-