This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
नासत्यत्वेनोपास्यौ नासापुटौ गन्धतन्मात्रत्वेनोपास्यं घ्राणं च
 
उपास्ते.
 
-
 
१०१
 
वक्त्राम्भोजे लसन्तं मुहुरधरमणि पक्कबिम्बाभिरामं
दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः ।
घोण: शोणीकृतात्मा श्रवणयुगलसत्कुण्डलो स्रैर्मुरारे:
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नःस्तात् ॥
 
सुदुः
 
A
 
6
 
वक्त्राम्भोजे मुखकमले लसन्तम् अनुक्षणं स्फुरन्तम्,
स्फुरणस्याधरगुणत्वात् ; कामप्यभिख्यां स्फुरितैरपुष्यदासन्न -
लावण्यफलोऽधरोष्ठ : ' इत्याद्युक्तेः । अधरमाणं पक्कवि-
म्बाभिरामं परिणतबिम्बिकालताफलमिव स्निग्धारुणत्वात्
मध्ये स्थूलत्वात्, उभयतः क्रमप्रभूततनुत्वाच्च रमणीयम् ।
अत एव तत्फलवत् भ्रमजनकत्वं सिध्यति । तदा
तं दृष्ट्वा दष्टुं खण्डयितुम् अवतरतः, शुकानां बिम्बफ-
लप्रियत्वात् 'तरुणि येन तवाधरपाटलं दशति बिम्ब
फलं शुकपोतकः' इत्यायुक्तेः । शुकस्य ताम्रतुण्डस्य ।
स्फुटं तुण्डायते चञ्चुवदाचरति, वृत्तोत्तुङ्गताम्रतया च नील-
बर्णस्य भगवद्ब्राणदण्डस्य स कथमुपमानत्वमर्हति, इत्यत्राह -
श्रवणयुगलसत्कुण्डलोस्रैः कर्णपालीद्वये स्फुरतोः कुण्डलयोः,
तयोर्माणिक्यमयत्वेन पूर्वश्लोके प्रतिपादितत्वात् शोणषर्णै:
 
-