This page has been fully proofread once and needs a second look.

विष्णुपादादि-
;
 
उदयमानस्य बालस्येति यावत् ; तदानीं मण्डलतया मणिसा-

म्यसिद्धेः ;
: ;
सूर्यस्यांशुभिः किरणै: राजतः; तेषां तत्प्रतिफ-

लनेन स्फुरणात्; 'दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्यो-

तिषि रूप्यभित्तिषु पुरः प्रतिफलति मुहुः' इति माघो-

क्तवत् ; मरकतमुकुरस्य मरकतनिर्मितस्य दर्पणस्य य आका
-
र: संस्थानं तस्यैव तस्करं हर्तृ; न तु शोभामात्रस्येति :
;
अनेन साम्यसंपत्तिर्द्यौत्यते; प्रतिफलितत्वश्यामलत्वे साधारणौ

धर्मौ । गाढां महतीम् । आगामिनीम् उपर्यागन्तुमुन्मुखीम् ।

विपदं दुःखम् । शमयतु नाशयतु, सशरीरत्वस्वाभा-

व्यात् ;
'न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिर
-
स्ति ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः
'
इति श्रुतेः । 'दुःखजन्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरा-

पाये तदनन्तरापायादपवर्ग: ' इति स्मृतेः सम्यग्ज्ञानदानेन

शरीरान्तरपरिग्रहमस्माकं निवारयत्वित्यर्थः प्रकाश्यते । गण्ड-

योः कपोलयोर्मण्डलं वृत्तं संस्थानम् । अत्र दृष्टान्तोऽलंकारः ।

माणिक्यश्रीगण्डमण्डलयोः सूर्यायांशुमरकतमुकुरयोश्च बिम्बप्रति

बिम्बभावेन निर्देशात् ; निदर्शना च, आकारधारणस्य साम्ये

पर्यवसानात् ॥ ३८ ॥
 
१००
 
6
 

 
अथ 'नासावश्विनौ ' इति सावित्रीहृदयोक्तेः 'नासत्य-

दसौ परमस्य नासे घ्राणं च गन्धः ' इति श्रीभागवतोक्तेश्च