This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
वचनंसुधा, सप्रसादस्य भगवद्वचनस्य निरतिशयतपः प्रार्थ्य-
त्वात् । 'देवाहृते वर: श्रेष्ठ: ' इत्यमरः । आस्ये चन्द्रत्वारो-
पात् वचने सुधात्वारोप: । ह्लादयेत् सुखयतु अत्र भाविकं
परंपरितरूपकं च अलंकारः ॥ ३७ ॥
 
अथ जनोलोकरूपमुखावयवभूतं गण्डमण्डलमुपास्ते-
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-
न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।
प्रोद्यत्सूर्याशुराजन्मरकतमुकुराकारचोरं मुरारे:
गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥
 
कर्णस्थयोः श्रवणपालीसंनिहितयोः स्वर्णकम्रयोः कनक-
मयत्वेन रम्ययोः अत एवोज्ज्वलयोः भासुरयो: मकरप-
त्राकारेण निर्मितयोः महतो: कर्णभूषणयो: ; 'विद्युत्क्षिपन्म-
करकुण्डलमण्डनार्हगण्डस्थल: ' इत्यादिपुराणोक्तेः । प्रोतानां
न्यस्तानां दीप्यतां द्योतमानानां माणिक्यानां पद्मरागरत्नानां
श्रीप्रतानैः प्रभाविस्तारैः । परिमिलितं संजातपरिमलं सच्छा-
यमिति यावत् ; 'सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्'
'न्यस्तं सिद्धाजनपरिमलम्' इत्यादिप्रयोगात् । अलिश्या-
मलं भ्रमरवन्नीलवर्णम् । कोमलं मुग्धसंस्थानम् । प्रोद्यतः