This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
वचनंसुधा, सप्रसादस्य भगवद्वचनस्य निरतिशयतपः प्रार्थ्य-

त्वात् । 'देवाहृद्वृते वर: श्रेष्ठ: ' इत्यमरः । आस्ये चन्द्रत्वारो-

पात् वचने सुधात्वारोप: । ह्लादयेत् सुखयतु अत्र भाविकं

परंपरितरूपकं च अलंकारः ॥ ३७ ॥
 

 
अथ जनोलोकरूपमुखावयवभूतं गण्डमण्डलमुपास्ते-

 
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-

न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।

प्रोद्यत्सूर्यायांशुराजन्मरकतमुकुराकारचोरं मुरारे:

गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥
 

 
कर्णस्थयोः श्रवणपालीसंनिहितयोः स्वर्णकम्रयोः कनक-

मयत्वेन रम्ययोः अत एवोज्ज्वलयोः भासुरयो: मकरप-

त्राकारेण निर्मितयोः महतो: कर्णभूषणयो: ; 'विद्युत्क्षिपन्म-

करकुण्डलमण्डनार्हगण्डस्थल: ' इत्यादिपुराणोक्तेः । प्रोतानां

न्यस्तानां दीप्यतां द्योतमानानां माणिक्यानां पद्मरागरत्नानां

श्रीप्रतानैः प्रभाविस्तारैः । परिमिलितं संजातपरिमलं सच्छा-

यमिति यावत् ; 'सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्'

'न्यस्तं सिद्धाञ्जनपरिमलम्' इत्यादिप्रयोगात् । अलिश्या-

मलं भ्रमरवन्नीलवर्णम् । कोमलं मुग्धसंस्थानम् । प्रोद्यतः