This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् । ९

मणिभिराचार्यैः प्रकाशित एव । विभाति, न तु श्रूयते इति ;
अनेन 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं
द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ' इति, 'न तु मां शक्ष्यसे
द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे
योगमैश्वरम्' इति, 'तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथाप-
रम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ' इत्या-
दिवचनैः भक्तिज्ञानयोगात्मकदिव्यचक्षुर्गोचरतया भगवद्विग्र-
हस्य स्वस्य च गुरुप्रसादात् उक्तलक्षणदिव्यचक्षुःसंपन्नतया
तत्त्वतस्तस्यानुभूतत्वं व्यज्यते । विभाति, न तु विभातमिति
वर्तमाननिर्देशात् भवतामपि भक्त्यादिनिष्ठत्वे तथा प्रकाशत
एव । अतः अस्मिन्नर्थे निस्तन्द्रैः प्रयतितव्यं भवद्भिरिति
श्रोत्रादीन् प्रत्युपदेशः क्रियते । विभाति, न तु दृश्यते इति
स्वतो धवलस्यास्य हरिभुजप्रभानीलिम्ना परभागलाभात् विशे-
षदृश्यत्वम् नैसर्गिकश्वैत्यस्यापि शशिबिम्बस्य यथा 'लक्ष्म
लक्ष्मीं तनोति... किमिव हि मधुराणां मण्डनं नाकृतीनाम् '
इति न्यायादिति द्योत्यते । पायात् रक्षत्विति आशिषि प्रा-
र्थने वा लिङ् । पा रक्षणे इति धातुः । नः अस्मानिति स्वस्य
स्वमतानुसारेण भगवदुपासकानां च सर्वेषां संग्रहः । पाञ्च-
जन्यः, पञ्चजनाः मनुष्याः । 'स्युः पुमांसः पञ्चजनाः
पुरुषाः पुरुषा नरः ' इत्यमरः । तेषां हितः अनिष्टनिवा-
 
 
 
 
.